________________
४२०
स्थानाङ्ग सूत्रम् ७/-/५९७ गोत्राणितान्यपिनामान्येव, केवलमन्वर्थयुक्तानि गोत्राणि इतराणि त्वितराणि, अन्वर्थश्च सुखोनेयः
सप्तावकाशान्तराणि प्राक्प्ररूपितानि, तेषु च बादरा वायवः सन्तीति तत्प्ररूपणायाह -
मू. (५९८) सत्तविहा बायरवाउकाइया पं० तं० - पातीणवाते पडीणवाते दाहिणवाते उदीणवाते उडंवाते अहोवाते विदिसिवाते।
वृ. 'सत्तविहा बायरे'त्यादि, सूक्ष्माणांनभेदोऽस्तिततो बादरग्रहणं, भेदश्च दिग्विदिग्भेदात् प्रतीत एवेति।
मू. (५९९) सत्त संठाणा पं० तं० - दीहे रहस्से वट्टे तंसे चउरंसे पिहले परिमंडले।
वृ. वायवो ह्यदृश्यास्तथापि संस्थानवन्तो भयवन्तश्चेति संस्थानभयसूत्रे, संस्थानानि च प्रतीतानि, तद्विशेषाः प्रतरघनादयोऽन्यतो ज्ञेयाः ।
मू. (६००) सत्त भयट्ठाणा पं० तं० - इहलोगभते परलोगभत्ते आदानभते अकम्हाभते वेयणभते मरणभते असिलोगभते।
वृ. 'सत्तभयट्ठाणे त्यादि, भयं-मोहनीयप्रकृतिसमुत्थ आत्मपरिणामस्तस्य स्थानानि-आश्रया भयस्थानानि, तत्र मनुष्यादिकस्य सजातीयादन्यस्मान्मनुष्यादेरेव सकाशाद्यद्भयंतदिहलोकभयं, इहाधिकृतभीतिमतोजातौ लोक इहलोकस्ततोभयमितिव्युत्पत्तिः, तथा विजातीयात्-तिर्यग्देवादेः सकाशान्मनुष्यादीनां यद्भयं तत्परलोकभयं, आदीयत इत्यादानं-धनं दर्शं चौरादिभ्यो यद्भयं तदादानभयं, अकस्मादेव-बाह्यनिमित्तानपेक्षं गृहादिष्वेव स्थितस्य रात्र्यादौ भयमकस्माद्भयं, वेदना-पीडा तद्भयं वेदनाभयं, मरणभयं प्रतीतं, अश्लोकभयं-अकीर्तभयं, एवं हि क्रियमाणे महदयशो भवतीति तद्भयान प्रवर्तत इति । भयंचछद्भस्थस्यैव भवति, सच यैः स्थानैर्ज्ञायते तान्याह
मू. (६०१) सत्तहिं ठाणेहिं छउमत्थं जाणेञ्जा, तं०-पाणे अइवाएत्ता भवति मुसं वइत्ता भवति अदिन्नमादित्ता भवति सद्दफरिसरसरूवगंधे आसादेत्ता भवति पूतासक्कारमनुवूहेत्ता भवति इमं सावजंति पन्नवेत्ता पडिसेवत्ता भवति नोजघावादी तधाकारी यावि भवति । सत्तहिं ठाणेहिं केवली जाणेजा, तं० - नो पाणे अइवाइत्ता भवति जाव जघावाती तधाकारी यावि भवति॥
७. “सत्तहिं ठाणेही'त्यादि, सप्तभिः स्थानैर्हेतुभूतेः छद्भस्थं जानीयात्, तद्यथा-प्राणान् अतिपातयिता, तेषां कदाचिद् व्यापादनशीलो भवति, इह च प्राणातिपातनमिति वक्तव्येऽपि धर्मधर्मिणोरभेदादतिपातयितेतिधर्मी निर्दिष्टः, प्राणातिपातनाच्छद्भस्थोऽयमित्वसीयते, केवली हि क्षीणचारित्रावरणत्वान्निरतिचारसंयमत्वादप्रतिषेवित्वान्न कदाचिदपि प्राणानामतिपातयिता भवतीत्येवं सर्वत्र भावना ज्ञेया, तथा मृषावादिता भवति, अदत्तमादाता-गृहीता भवति, शब्दादीनास्वादयिता भवति, पूजासत्कारं-पुष्पार्चनवस्त्राद्यर्चने अनुबंहयिता-परेण स्वस्य क्रियमाणस्य तस्यानुमोदयिता, तद्भावे हर्षकारीत्यर्थः, तथेदमाधाकर्मादिसावधं-सपापमित्येवं प्रज्ञाप्य तदेव प्रतिषेविता भवति, तथा सामान्यतो नो यथा वादी तथाकारीअन्यथाभिधायान्यथा कर्ता भवति 'चापी'ति समुच्चये।
एतान्येव विपर्यस्तानि केवलिगमकानि भवन्तीत्येतत्प्रतिपादनपरं केवलिसूत्रं, सुगममेव केवलिनश्च प्रायो गोत्रविशेषवन्त एव भवन्ति प्रव्रज्यायोग्यत्वान्नाभेयादिवदिति ‘सत्तमूलगोत्ते'त्यादिना ग्रन्थेन गोत्रविभागमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org