SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ३६ स्थानाङ्ग सूत्रम् १/-/५१ ते नवयौवनतया कुमारा इव कुमाराश्चेत्यसुरकुमारास्तेषामेका वर्गणेति, 'चउवीसदंडउत्ति चतुर्विशतिपदप्रतिबद्धो दण्डको वाक्यपद्धतिश्चतुर्विशतिदण्डकः, स इह वाच्य इति शेषः, स चायं॥१॥ 'नेरइया १ असुरादी १० पुढवाइ ५ बेइंदियादयो चेव४। नर १ वंतर १ जोतिसिय १ वेमाणी १ दंडओ एवं" -भवनपतयो दशधा॥२॥ "असुरा नाग सुवन्ना विज्जू अग्गी यदीव उदही य । दिसि पवथणियनामा दसहा एए भवणवासि" त्ति, एतदनुसारेण सूत्राणिवाच्यानि, यावच्चतुर्विशतितमं ‘एगावेमाणियाणंवग्गण'त्ति, एषा सामान्यदण्डकः १ । ननुनारकसत्तैवदुरुपपादाआस्तां तद्धर्मभूताया वर्गणाया एकत्वमनेकत्वं वेति, तथाहि-नसन्तिनारकाः, तत्साधकप्रमाणाभावात्, व्योमकुसुमवत्, अत्रोच्यते,प्रमाणाभावादित्यसिद्धो हेतुः, तत्साधकानुमानसद्भावात्, तथाहि-विद्यमानभोक्तृकं प्रकृष्टपापकर्मफलं, कर्मफलत्वात्,पुण्यकर्मफलवत्, नचतिर्यङ्गनरा एवप्रकृष्टपापफलभुजः, तस्यौदारिकशरीरवता वेदयितुमशक्यत्वात, विशिष्टसुरजन्मनिबन्धनप्रकृष्टपुण्यफलवत, आह च॥१॥ _ “पावफलस्स पगिट्ठस्स भोइणो कम्मओऽवसेसव्व । संतिधुवं तेऽभिमया नेरइया अह मई होज्जा ॥२॥ अञ्चत्थदुक्खिया जे तिरियनरा नारगत्ति तेऽभिमया। तंनजओ सुरसोक्खप्पगरिससरिसं न तंदुक्खं" ति, 'अवसेसव्व'त्तियथानारकेभ्योऽन्येतिर्यङ्गनराइत्यर्थः,अथसुराणामपि विवादास्पदीभूतत्वात् विशिष्टसुरजन्मनिबन्धनप्रकृष्टपुण्यफलवत् इत्यसिद्धो दृष्टान्तः, अत्रोच्यते, देव इति सार्थकं पदं, व्युत्पत्तिमच्छुद्धपदत्वाद्, घटाभिधानवदिति, ततः सन्तिदेवा इति प्रत्येतव्यम्, अथमनुष्येण गुणर्द्धिसंपन्नेनार्थवद्भविष्यति देवपदमितिन विवक्षितदेवसिद्धिरिति, अत्रोच्यते, यदिदं नरविशेषे देवत्वं तदौपचारिकम्, उपचारश्च तथ्यार्थसिद्धौ सत्यां भवति, यथा निरुपचरितसिंहसद्भावे माणवके सिंहोपचार इति, आह च॥१॥ "देवत्तिसत्थयमिदं सुद्धत्तणओ घडाभिहाणं व । अह व मती मणुओ च्चिय देवो गुणरिद्धिसंपन्नो ॥२॥ तं नजओ तच्चत्थे सिद्धे उवयारओ मया सिद्धी। तच्चत्थसीह सिद्धे माणव सीहोवयारोव्व" इति, ॥१॥ (अपिच-) "देवेसुन संदेहो जुत्तो जंजोइसा सपञ्चक्खं । दीसंतितक्कयाविय उवघायाणुग्गहा जगओ ॥२॥ आलयमेत्तं च मई पुरं च तव्वासिणो तहवि सिद्धा। जे ते देवत्ति मया न य निलया निच्चपडिसुण्णा को जाणइ व किमेयंति होज निस्संसयं विमाणाइ । __ रयणमयनभोगमनादिह जह विजाहरादीणं" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy