________________
स्थानं - ५, - उद्देशक: - ३
मू. (५०१) विसमं पवालिणो परिणमन्ति अणुद्वसु देति पुप्फफलं । वासं न सम्म वासति तमाहुं संवच्छरं कम्मं ॥
३७३
वृ. 'विसमं' गाहा, विषमं वैषम्येण प्रवालं-पल्लवाङ्कुरस्तद्विद्यते येषां ते प्रवालिनो वृक्षा इति गम्यते, परिणमन्ति-प्रवालवत्तालक्षणया अवस्थया जायन्ते, अथवा प्रवालिनो-वृक्षपरिणमन्तिअङ्कुरोद्भेदाद्यवस्थां यान्ति, तथा अनृतुषु - अस्वकालं ददति-प्रयच्छन्ति पुष्पफलं, यथा चैत्रादिषु कुसुमादिदाविनोऽपि स्वरूपेण चूताः माघादिषु पुष्पादि यच्छन्तीति, तथा वर्षं वृष्टिं मेघो न सम्यग्वर्षति यत्रेति गम्यते, तमाहुर्लक्षणतः संवत्सरं कार्मणं, यस्य ऋतुसंवत्सरः सावनसंवत्सरश्चेति पर्यायौ । मू. (५०२)
पुढविदगाणं तु रसं पुप्फफलाणं तु देइ आदिच्चो । अप्पेणवि वासेण सम्मं निप्फज्जए सस्सं ४
वृ. 'पुढवि' गाहा, यत्र त्विति गम्यते, तथा च यत्र तु संवत्सरे पृथिव्युदकयो रसंमाधुर्यस्निग्धतालक्षणं पुष्पफलाना च ददात्यादित्यः तथास्वभावत्वात्, तथाविधोदकाभावेऽपीति भावः, अत एवाल्पेनापि वर्षेण सम्यक्-यथाभिमतं निष्पद्यते सस्यं शाल्यादिधान्यं स लक्षणत आदित्यसंवत्सर उच्यत इति शेष इति । मू. (५०३)
आदिच्चतेयतविता खणलवदिवसा उऊ परिणमंति । पूरिति रेणुथलताई तमाहु अभिवड्ढितं जाण ।।
"
वृ. ‘आइच्च’गाहा, आदित्यतेजसा तप्ताः पृथिव्यादितापेऽप्युपचारात् क्षणादयस्तप्ता इति मन्तव्यं तत्र क्षणो-मुहूर्तः लवः एकोनपञ्चाशदुच्छासप्रमाणो दिवसः - अहोरात्रः ऋतु:मासद्वयप्रमाणः ‘परिणमन्ति' अतिक्रामन्ति यत्रेति गम्यते, यश्च पूरयति वायूत्खातरेणुभिः स्थलानिभूमिप्रदेश - विशेषान् तमाहुराचार्या लक्षणतः संवत्सरमभिवर्द्धितं 'जाण' त्ति त्वमपि शिष्य ! तं तथैव जानीहिति । संवत्सरव्याख्यानमिदं तत्त्वार्थटीकाद्यनुसारेण प्रायो लिखितमिति ।
अनन्तरं संवत्सर उक्तः, स च कालः, कालात्यये च शरीरिणां शरीरान्निर्गमो भवतीत्यतस्तन्मार्गं निरुपयन्नाह
मू. (५०४) पंचविधे जीवस्स निज्जाणमग्गे पं० तं०-पातेहिं ऊरुहिं उरेणं सिरेणं सव्वंगेहिं, पाएहिं निज्जाणमाणे निरयंगामी भवति, ऊरूहिं निज्जाणमाणे तिरियगामी भवति, उरेणं निज्जायमाणे मनुयगामी भवति, सिरेणं णिज्जायमाणे देवगामी भवति, सव्वेहिं निज्जायमाणे सिद्धिगतिपज्जवसाणे पन्नत्ते ।
वृ. 'पंचविहे 'त्यादि व्यक्तं, किन्तु निर्याणं मरणकाले शरीरिणः शरीरान्निर्गमस्तस्य मार्गो निर्याणमार्गः-पादादिकः, तत्र 'पाएहिं 'ति पादाभ्यां मार्गभूताभ्यां करणताऽऽपन्नाभ्यां जीवः शरीरान्निर्यातीति शेषः, एवं उरुभ्यामित्यादावपि, अथ क्रमेणास्य निर्याणमार्गस्य फलमाह-पादाभ्यां शरीरान्निर्यान् जीवो 'निरयगामि' त्ति प्राकृतत्वादनुस्वार इति, निरयगामी भवति, एवमन्यत्रापि, नवरं सर्वाणि च तान्यङ्गानि च सर्वाङ्गानि तैर्निर्यान् सिद्धिगतिः पर्यवसानं-संसरणपर्यन्तो यस्य स सिद्धिगतिपर्यवसानः प्रज्ञप्त इति । निर्याणं चायुष्कच्छेदने भवतीति छेदनं प्ररूपयन्नाह
मू. (५०५) पंचविहे छेयणे पं० तं०-उप्पाछेयणे वियच्छेयणे बंधच्छेयणे पएसच्छेयणे
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International