SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ स्थानं - ५, उद्देशकः - १ ३३३ केवलं ज्ञानान्तरासहायत्वात् संशुद्धत्वाद्वा अत एव वरं प्रधानं केवलवरं ज्ञानं चविशेषावभासं दर्शनं च-सामान्यावभासं ज्ञानदर्शनं तच्च तत्तच्चेति केवलवरज्ञानदर्शनं समुत्पन्नंजातं चैत्रशुद्धपञ्चदश्यां तथा परिनिर्वृतो- निर्वाणं गतः मार्गशीर्षबहुलैका श्यामादेशान्तरेण फाल्गुनबहुलचतुर्थ्यामिति । 'एवं चेव'त्ति पद्मप्रभसूत्रमिव पुष्पदन्तसूत्रमप्यध्येतव्यं, 'एवं' अनन्तरोक्तस्वरूपेण एतेन - अनन्तरत्वात् प्रत्यक्षेणाभिलापेन सूत्रपाठेनेमास्तिस्रः सूत्रसङ्ग्राहणिगाथा अनुगन्तव्याः - अनुसर्त्तव्याः, शेषसूत्राभिलापनिष्पादनार्थं । मू. (४४६) पउमप्पभस्स चित्ता १ मूले पुण होइ पुप्फदंतस्स २ । पुव्वाइं आसाढा ३ सीयलस्सुत्तरं विमलस्स भद्दवता ४ ॥ मू. (४४७) रेवतिता अनंतजिनो ५ पूसो धम्मस्स ६ संतिणी भरणी ७ । कुंथुस्स कत्तियाओ ८ अरस्स तह रेवतीतो य ९ ।। मू. (४४८) मुनिसुव्वयस्स सवणो १० आसिणि नमिणो ११ य नेमिणो चित्ता १२ । पासस्स विसाहाओ १३ पंच य हत्थुत्तरो वीरो १४ । तथा वृ. 'पउमप्पभस्से' त्यादि, तत्र पद्मप्रभस्य चित्रानश्रत्रं च्यवनादिषु पञ्चसु स्थानकेषु भवतीत्यादि गाथाक्षरार्थो वक्तव्यः, सूत्राभिलापस्त्वाद्यसूत्रद्वयस्य साक्षाद्दर्शित एव, इतरेषां त्वेवं- 'सीयले णं अरहा पंचपुव्वासाढे होत्था, तंजहा- पुव्वासाढाहिं चुए चइत्ता गब्भं वक्कंते, पुव्वासाढाहिं जाए' इत्यादि, एवं सर्वाण्यपि इति, व्याख्या त्वेवं पुष्पदन्तो-नवमतीर्थकरः आनतकल्पादेकोनविंशतिसागरोपमस्थितिकात् फाल्गुनबहुलनवम्यां मूलनक्षत्रे च्युतश्चयुत्वा काकन्दीनगर्यां सुग्रीवराजभार्यायाः रामाभिधानाया गर्भत्वेन व्युत्क्रान्तः ?, मूलनक्षत्रे मार्गशीर्षबहुलपञ्चम्यां जातः, मूल एव ज्येष्ठशुद्धप्रतिपदि मतान्तरेण मार्गशीर्षवहुलषष्ठयां निष्क्रान्तः, तथा मूल एव कार्त्तिकशुद्ध तृतीयायां केवलज्ञानमुत्पन्नं, तथा अश्वयुजः शुद्धनवम्यामादेशान्तरेण वैशाखबहुलषष्ठयां निर्वृत इति २, तथा शीतलो दशमजिनः प्राणतकल्पाद्विंशतिसागरोपम-स्थतिकाद्वैशाखबहुलषष्ठयां पूर्वाषाढा नक्षत्रे च्युतः च्युत्वा च भद्दिलपुरे ध्ढरथनृपतिभार्याया नन्दाया गर्भतया व्युत्क्रान्तः, तथा पूर्वाषाढास्वेव माघबहुलद्वादश्यां जातः, तथा पूर्वाषाढास्वेव माघबहुलद्वादश्यां निष्क्रान्तः, तथा पूर्वाषाढास्वेव पौषस्य शुद्धे मतान्तरेण वहुले पक्षे चतुर्द्दश्यां ज्ञानमुत्पन्नं, तथा तत्रैव नक्षत्रे श्रावणशुद्धपञ्चम्यां मतान्तरेण श्रावणवहुलद्वितीयायां निर्वत इति, एवं गाथात्रयोक्तानां शेषाणामपि सूत्राणां प्रथमानुयोगपदानुसारेणोपयुज्य व्याख्या कार्या, नवरं चतुर्द्दशसूत्रे अभिलापविशेषोऽस्तीति तद्दर्शनार्थमाह मू. (४४९) समणे भगवं महावीरे पंचहत्थुत्तरे होत्था-हत्युत्तराहिं चुए चइत्ता गब्भं वक्कते हथुत्तराहिं गभाओ गब्भं साहरिते हत्थुत्तराहिं जाते हत्थुत्तराहिं मुंडे भवित्ता जाव पव्वइए हत्थुत्तराहिं अनंते अनुत्तरे जाव केवलवरनाणदंसणे समुप्पन्ने । वृ. ‘समणे’त्यादि, हस्तोपलक्षिता उत्तरा हस्तो वोत्तरो यासां ता हस्तोत्तराः-उत्तराः फाल्गुन्यः, पञ्चसु च्यवनगर्भहरणादिषु हस्तोत्तरा यस्य स तथा 'गर्भात्' गर्भस्थानात् 'गर्भ'न्ति गर्भे गर्भस्थानान्तरे संहतो - नीतः, निर्वृतस्तु स्वातिनक्षत्रे कार्त्तिकामावास्यायामिति ॥ स्थानं - ५ - उद्देशक :- १ समाप्तः For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy