________________
m
स्थानं-४, - उद्देशकः -३ दिव्वमाणुस्सएकामभोगेनोआसाएतिजावनोअभिलसतिदिव्वमाणुस्सएकामभोगेअणासाएमाणे जाव अणभिलसमाणे नो मणं उच्चावतं नियच्छति नो विणिघातमावजति तच्चा सुहसेज्जा ३, अहावरा चउत्था सुहसेञ्जा-सेणंमुंडे जाव पव्वतितेतस्सणं एवं भवति-जइ ताव अरहंता भगवंतो इट्ठा आरोग्गा बलिया कल्लसरीरा अन्नयराइं ओरालाई कल्लाणाई वउलाई पयताई पग्गहिताई महाणुभागाइंकम्मक्खयकारणाइंतवोकम्माइंपडिवजंति किमंगपुणअहंअब्भोवगमिओवक्कमियं वेयणं नो सम्मं सहामि खमामि तितिक्खेमि अहियासेमि ममं च णं अब्भोवगमिओवक्कमियं सम्ममसहमाणस्स अक्खममाणस्स अतितिक्खमाणस्स अनहियासेमाणस्स किं मन्ने कजति?, एगंतसोमेपावेकम्मेकज्जति, ममंचणंअब्भोवगमिओजावसम्मंसहमाणस्सजावअहियासेमाणस्स किं मन्ने कजति?, एगंतसो मे निजरा कज्जति, चउत्था सुहसेजा ४।
वृ. 'चत्तारी'त्यादि, चतस्रः-चतुःसङ्ख्या दुःखदाः शय्या दुःखशय्याः, ताश्च द्रव्यतोऽतथाविघखट्वादिरूपाः भावतस्तुदुःस्थचित्ततयादुःश्रमणतास्वभावाःप्रवचनाश्रद्धानं १परलाभप्रार्थना २ कामाशंसन ३ स्नानादिप्रार्थन ४ विशेषिताःप्रज्ञप्ताः, 'तो'ति तासु मध्ये से' इतिस कश्चित् गुरुका अथार्थो वा अयंसचवाक्योपक्षेपे 'प्रवचने' शासने दीर्घत्वञ्चप्रकटादित्वादिति शङ्कितः-एकभावविषयसंशययुक्तः कासितो-मतान्तरमपिसाध्वितिबुद्धिः विचिकित्सितः-फलं प्रति शङ्कावान् भेदसमापन्न-बुद्धिद्वैधीभावापन्न एवमिदं सर्वं जिनशासनोक्तमन्यथा वेति कलुषसमापन्नो-नैतदेवमिति विपर्यस्त इति, न श्रद्धते-सामान्येनैवमिदमति नो प्रत्येति-प्रतिपद्यते प्रीतिद्वारेण नोरोचयति-अभिलाषातिरेकेणासेवनाभिमुखतयेति,मनःचित्तमुच्चावचम्-असमञ्जसं निर्गच्छति-यातिकरोतीत्यर्थः, ततो विनिघातं-धर्मभ्रंशंसंसारंवाआपद्यते, एवमसौ श्रामण्यशय्यायां दुःखमास्त इत्येका, तथा स्वकेन-स्वकीयेनलभ्यते लम्भनं वेति लाभः-अन्नादे रत्नादेर्वा तेनआशां करोतीत्याशयति न नूनं मे दास्यतीत्येवमिति आस्वादयति वा-लभते चेत् भुङ्कत एव स्पृहयतिवाञ्छयतिप्रार्थयति-याचतेअभिलषति-लब्धेऽप्यधिकतरंवाञ्छतीत्यर्थः, शेषमुक्तार्थमेवमप्यसौ दुःखमास्त इति द्वितीया, तृतीया कण्ठया, अगारवासो-गृहवासस्तमावसामि-तत्र वर्तेसम्बाधनंशरीरस्यास्थिसुखत्वादिना नैपुण्येन मर्दनविशेषः परिमर्दनं तु-पिष्टादेर्मलनमात्रं परिशब्दस्य धात्वर्थमात्रवृत्तित्वात् गात्राभ्यङ्गः-तैलादिनाऽङ्गम्रक्षणं गात्रोत्क्षालनम्-अङ्गधावनमेतानि लभेन कश्चित् निषेधयतीति, शेषं कण्ठ्यमिति चतुर्थी ॥
दुःखशय्याविपरीताः सुखशय्याः प्रागिवावगम्याः, नवरं-'हह'त्ति-शोकाभावेन हृष्टा इव हृष्टा अरोगा-ज्वरादिवर्जिताः बलिकाः-प्राणवन्तः कल्पशरीराः-पटुशरीरा अन्यतराणिअनशनादीनां मध्ये एकतराणि उदाराणि-आंशसादोषरहिततयोदारचित्तयुक्तानि कल्याणानि मङ्गलस्वरूपत्वात् विपुलानि बहुदिनत्वात्प्रयतानिप्रकृष्टसंयमयुक्तत्वात्प्रगृहीतानिआदरप्रतिपन्नत्वात् महानुभागानि अचिन्त्यशक्तियुक्तत्वात् ऋद्धिविशेषकारणत्वात् कर्मक्षयकारणानि मोक्षसाधकत्वात् तपःकर्माणितपः-क्रियाः प्रतिपद्यन्ते-आश्रयन्ति, 'किमंग पुण'त्ति किं प्रश्ने अङ्गत्यात्मामन्त्रणेऽलङ्कारे वा पुन'रितिपूर्वोक्तार्थवैलक्षण्यदर्शनेशिरोलोचब्रह्मचर्यादीनामभ्युपगमे भवा आभ्युपगमिकी उपक्रम्यतेऽनेनायुरित्युपक्रमो-ज्वरातीसारादिस्तत्र भवा या सौपक्रमिकी साचासौ सा चेतिआभ्युपगमिकौपक्रमिकी तां वेदनां-दुःखं सहामितदुत्पत्तावभिमुखतया, अस्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org