________________
१२१
स्थानं-३,- उद्देशकः-१ कर्म-आयुष्कादि, अथवा अल्पमायुः-जीवितं यत आयुषस्तदल्पायुः तद्मावस्तत्ता तया कर्मआयुर्लक्षणं प्रकुर्वन्ति' बध्नन्तीत्यर्थः, तद्यथा-'प्राणान् प्राणानोऽऽतिपातयितेति 'शीलार्थतृनन्त'मिति कर्मणि द्वितीयेति, प्राणिनां विनाशनशील इत्यर्थः, एवंभूतो यो भवति, एवं मृषावाद वक्ता यश्च भवति, तथा तत्प्रकाररूपं-स्वभावोनेपथ्यादिवायस्यसतथारूवः दानोचित इत्यर्थः, तं श्राम्यति-तपस्यतीति श्रमणः-तपोयुक्तस्तं मा हन इत्याचष्टे यः परं प्रति स्वयं हनननिवृत्तः सन्नितिसमाहनो-मूलगुणधरस्तं, वाशब्दौ विशेषणसमुच्चयार्थी, प्रगता असवः-असुमन्तःप्राणिनो यस्मात्तत्रासुकंतनिषेधादप्रासुकंसचेतनमित्यर्थः तेन, एष्यते-गवेष्यतेउद्गमादिदोषविकलतया साधुभिर्यत्तदेषणीयं-कल्प्यं तन्निषेधादनेषणीयंतेन, अश्यते-भुज्यतेइत्यशनंच-ओदनादिपीयत इति पानंच-सौवीरकादि खादनं खादस्तेन निवृत्तंखादनारअर्थतस्य निर्वत्यमानत्वादिति खादिमं च-भक्तौदि स्वादनं स्वादः तेन निवृत्त स्वादिमं दन्तपवनादीति समाहारद्वन्द्वस्तेन, गाथाश्चात्र॥१॥ “असनं ओदनसत्तुगमुग्गजगाराइ खज्जगविहीय।
खीराइ सूरणादी मंडगपभिती य विन्नेयं ॥२॥ पाणं सोवीरजवोदगाइ चित्तं सुराइयं चेव ।
आउक्काओ सव्वो कक्कडगजलाइयं च तहा ॥३॥ भत्तोसं दंताईखज्जूरं नालिकेरदक्खाई।
कक्कडिगंबगफणसादि बहुविहं खाइमं नेयं ॥४॥
दंतवणं तंबोलं चित्तं अज्जगकुहेडगाई य।
महुपिप्पलिसुंठादी अनेगहा साइमं होइ" इति, प्रतिलम्भयिता-लाभवन्तंकरोतीत्येवंशीलोयश्चभवति, तेअल्पायुष्कतयाकर्म कुर्वन्तीति प्रक्रमः, 'इच्चेएहिं तिइत्येतैःप्राणातिपातादिभिरुक्तप्रकारैस्त्रिभिः स्थानःजीवाअल्पायुष्टया कर्म प्रकुर्वन्तीति निगमनमिति । इह च प्राणातिपातयित्रादिपुरुषनिर्देशेऽपि प्राणातिपातादीनामेवाल्पायुर्बन्धनिबन्धनत्वेन तत्कारणत्वमुक्तं द्रष्टव्यमिति, इयं चास्य सूत्रस्य भावनाअध्यवसायविशेषेणैतत्त्रयं यथोक्तफलं भवतीति, अथवायो हिजीवोजिनादिगुणपक्षपातितया तत्पूजाद्यर्थं पृथिव्याघारम्भेणन्यासापहारादिनाच प्राणातिपातादिषुवर्ततेतस्यसरागसंयमनिरवद्यदाननिमित्तायुष्कापेक्षयेयमल्पायुष्टा समवसेया, अथ नैतदेवं, निर्विशेषणत्वात् सूत्रस्य, अल्पायुष्कस्य क्षुल्लकभवग्रहणरूपस्यापि प्राणातिपातादिहेतुतो युज्यमानत्वाद्, अतः कथमभिधीयते-सविशेषप्राणातिपातादिवर्ती जीव आपेक्षिकी चाल्पायुष्कतेति ?, उच्यते, अविशेषणत्वेऽपि सूत्रस्य प्राणातिपातादेर्विशेषणमवश्यं वाच्यं,
यत इतस्तृतीयसूत्रे प्राणातिपातादित एव अशुभदीर्घायुष्टां वक्ष्यति, न हि समानहेतोः कार्यवैषम्यं प्रयुज्यते, सर्वत्रानाश्वासप्रसङ्गात्, तथा समणोवासमगस्सणंभंते! तहारूवं समणं वामाहणं वाअफासुएणंअनेसणिज्जेणं असनपानखाइमसाइमेणं पडिलाभेमाणस्स किं कज्जइ? गोयमा!, बहुतरियासे निञ्जरा कज्जइ, अप्पतराए से पावेकम्मेकज्जईत्तिभगवतीवचन-श्रवणादव सीयते-नैवेयं क्षुल्लकभवग्रहणरूपाऽल्पायुष्टा, न हि स्वल्पपापबहुनिर्जरानिबन्धनस्यानुष्ठानस्य क्षुल्लकभवग्रहणनिमित्तता सम्भाव्यते, जिनपूजनाद्यनुष्ठानस्यापितथाप्रसङ्गात्, अथाप्रासुकदानस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org