________________
६४
सूत्रकृताङ्ग सूत्रम् १/२/- / नि. [४१]
नि. [४१]
उद्देसंमि य तइए अन्नाणचियस्स अवचओ भणिओ । वज्रेयव्वो य सया सुप्पमाओ जइजणेणं ॥
वृ. तत्र प्रथमोद्देशके हिताहितप्राप्तिपरिहारलक्षणो बोधो विधेयोऽनित्यता चेत्ययमर्थाधिकारः, द्वितीयोद्देशके मानो वर्जनीय इत्ययमर्थाधिकारः, पुनश्च तथा तथाऽनेकप्रकारो बहुविधं शब्दादावर्थेऽनित्यतादिप्रतिपादकोऽर्थाधिकारो भणित इति, ।
तृतीयोद्देशके अज्ञानोपचितस्य कर्ममोऽपचयरूपोऽर्थाधिकारो भणित इति यतिजनेन च सुखप्रमादो वर्जनीयः सदेति । साम्प्रतं सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम्-: अध्ययनं -२ उद्देशक : -१ :
संबुज्झह किं न बुज्झह ?, संबोही खलु पेच दुल्लहा । नो हूवणमंति राइओ, नो सुलभं पुनरावि जीवियं ॥
मू. (८९)
वृ. तत्र भगवानादितीर्थकरो भरततिरस्कारागतसंवेगान् स्वपुत्रानुद्दिश्येदमाह, यदिवासुरासुरनरोगतिरश्चः समुद्दिश्य प्रोवाच यथा- 'संबुध्यत्वं' यूयं ज्ञानदर्शनचारित्रलक्षणे धर्मे बोधं कुरुत यतः पुनरेवंभूतोऽवसरो दुरापः तथाहि मानुषं जन्म तत्रापि कर्मभूमि पुनरार्यदेशः सुकुलोत्पत्ति सर्वेन्द्रियपाटवं श्रवणश्रद्धादिप्राप्तौ सत्यां स्वसंवित्त्यवष्टम्भेनाह
‘किंनबुध्यध्व’ मिति, अवश्यमेवंविधसामग्र्ग्यवाप्तौ सत्यां सकर्णेन तुच्छान् भोगान् परित्यज्य सद्धर्मे बोधो विधेय इति भावः, तथाहि
“निर्वाणादिसुखप्रदे नरभवे जैनेन्द्रधर्मान्विते,
लब्धे स्वल्पमचारु कामजसुखं नो सेवितुं युज्यते । वैडूर्यादिमहोपलौधनिचिते प्राप्तेऽपि रत्नाकरे,
लातुं स्वल्पमदीप्तिकाचशकलं किं साम्प्रतं साम्प्रतम् ॥
अकृतधर्मचरणानां तु प्राणिनां 'संबोधि : ' सम्यगदर्शनज्ञानचारित्रावाप्तिलक्षणा 'प्रेत्य' परलोकगतानां खलुशब्दस्यावधारणार्थत्वात् सुदुर्लभैव, तथाहि विषयप्रमादवशात् सकृत् धर्माचरणाद् भ्रष्टस्यानन्तमपि कालं संसारे पर्यटनमभिहितमिति । किंच-हुरित्यवधारणे, नैवातिक्रान्ता रात्रयः ‘उपनमन्ति' पुनकन्ते, न ह्यतिक्रान्तो यौवनादिकालः पुनरावर्त्तत इतिभावः, तथाहि । “भवकोटीभिरसुलभं मानुष्यं प्राप्य कः प्रमादो मे ? ।
119 11
न च गतमायुर्भूयः प्रत्येत्यपि देवराजस्य ॥
'नो' नैव संसारे 'सुलभं' सुप्रापं संयमप्रधानं जीवितं, यदिवा- जीवितम् - आयुस्त्रुटितं सत् तदेव संधातुं न शक्यत इति वृत्तार्थ । संबोधश्च प्रसुप्तस्य सतो भवति, स्वापश्च निद्रोदये, निद्रासंबोधयोश्च नामादिश्चतुर्द्धा निक्षेपः, तत्र नामस्थापने अनाद्दत्य द्रव्यभावनिक्षेपं प्रतिपादयितुं निर्युक्तिकृदाहनि. [४२]
दव्वं निद्दावेओ दंसणनाणतवसंजमा भावे । अहिगारो पुण मणिओ नाणे तवदंसणचरिते ॥
इह च गाथायां द्रव्यनिद्राभावसंबोधश्च दर्शितः, तत्राद्यन्तग्रहणेन भावनिद्राद्रव्यबोधयोस्तदन्तर्वर्तिनोर्ग्रहणं द्रष्टव्यं तत्र द्रव्यनिद्रा निद्रावेदो, वेदनमनुभवः दर्शनावरणीयविशेषोदय
,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org