________________
श्रुतस्कन्धः - १, अध्ययनं - १, उद्देशक :- २
साम्प्रतमज्ञानवादिनां ज्ञानवादी स्पष्टमेवानर्थाभिधित्सयाऽऽहमू. (४९) एवं तक्काइ साहिंता, धम्माधम्मे अकोविया । दुक्खं ते नाइतुति, सउणी पंजरं जहा ।
वृ. ‘एवं' पूर्वोक्तन्यायेन ‘तर्कया' स्वकीयविकल्पनया 'साधयन्तः’ प्रतिपादयन्तो धर्मेक्षान्त्यादिके अधर्मे च-जीवोपमर्दापादिते पापे 'अकोविदा' अनिपुणा 'दुःखम्' असातोदयलक्षणं तद्धेतुंवा मिथ्यात्वाद्युपचितकर्मबन्धनं 'नातित्रोटयन्ति' अतिशयेनैतद्यवस्थितं तथा तेन त्रोटयान्तिअपनयन्तीति, अत्र दृष्टान्तमाह
यदा पञ्जरस्थः शकुनि पञ्जरं त्रोटयितुं पञ्जरबन्धनादात्मानं मोचयितुं नालम्, एवमसावपि संसारपञ्जरादात्मानं मोचयितुं नालमिति अधुना सामान्येनैकान्तवादिमतदूषणार्थमाहसयं सयं पसंसंता, गरहंता परं वयं ।
मू. (५०)
४५
जे उ तत्थ विउस्संति, संसारं ते विउस्सिया ।।
वृ. 'स्वकं स्वकम् ' आत्मीयमात्मीयं दर्शनमभ्युपगतं 'प्रशंसन्तो' वर्णयन्तः समर्थयन्तो वा, तथा 'गर्हमाणा' निन्दन्तः परकीयां वाचं, तथाहि-साङ्ख्याः सर्वस्याविर्भावतिरोभाववादिनः सर्वं वस्तु क्षणिकं निरन्वयविनश्वरं चेत्येवंवादिनो बौद्धान् दूषयन्ति तेऽपि नित्यस्य क्रमयौगपद्याभ्या-मर्थक्रियाविरहात् साङ्ख्यान्, एवमन्येऽपि द्रष्टव्या इति । तदेवं 'ये' एकान्तवादिनः, तुरवधारणे मिन्नक्रमश्च ।
'तत्रैव' तेष्वेवाऽऽत्मीयात्मीयेषु दर्शनेषु प्रशंसां कुर्वाणाः परवाचंच विगर्हमाणा 'विद्वस्यंते' विद्वांस इवाऽऽचरन्ति तेषु वा विशेषेणोशन्ति-स्वशास्त्रविषये विशिष्टं युक्तिव्रातं वदन्ति, ते चैवंवादिनः‘संसारं’ चतुर्गतिभेदेन संसृतिरूपं विविधम्- अनेकप्रकारम् उत्-प्राबल्येन श्रिताःसंबद्धाः, तत्र वा संसारे उषिताः संसारान्तर्वर्तिनः सर्वदा भवन्तीत्यर्थ । साम्प्रतं यदुक्तं निर्युक्तिकारेणोद्देशकार्याधिकारे 'कर्म चयं न गच्छति चतुर्विधं भिक्षुसमय' इति, तदधिकृत्याहअहावरं पुरक्खायं, किरियावइदरिसणं । कम्मचिंतापणट्टाणं, संसारस्स पवड्डणं ॥
मू. (५१)
वृ. ‘अथे’त्यानन्तर्ये, अज्ञानवादिमतानन्तरमिदमन्यत् 'पुरा' पूर्वम् 'आख्यातं' कथितं, किं पुनस्तदित्याह-‘क्रियावादिदर्शनं क्रियैव-चैत्यकर्मादिका प्रधानं मोक्षाङ्गमित्येवं वदितुं शीलं येषां ते क्रियावादिनरतेषां दर्शनम् आगमः क्रियावादिदर्शनं किंभूतास्ते क्रियावादिन इत्याहकर्मणि- ज्ञानावरणादिके चिन्ता-पर्यालोचनं कर्मचिन्ता तस्याः प्रणष्टा- अपगताः कर्मचिन्ताप्रणष्टाः यतस्ते अविज्ञानाद्युपचितं चतुर्विधं कर्मबन्धं नेच्छन्ति अतः क्वर्मचिन्ताप्रणष्टाः, तेषां चेदं दर्शनं 'दुःखस्कन्धस्य' असातोदयपरम्पराया विवर्धनं भवति, कचित्संसारवर्धनमिति पाठः, ते ह्येवं प्रतिपद्यमानाः संसारस्य वृद्धिमेव कुर्वन्ति नोच्छेदमिति ॥
यथा च ते कर्मचिन्तातो नष्ठास्तथा दर्शयितुमाह
मू. (५२)
जाणं काणणाउट्टी, अबुहो जं च हिंसति । पुट्ठो संवेदइ परं, अवियत्तं खु सावज्रं ॥
वृ. यो हि 'जानन्' अवगच्छन् प्राणिनो हिनस्ति, कायेन चानाकुट्टी, 'कुट्ट छेदने'
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International