________________
श्रुतस्कन्धः - २, अध्ययनं -७,
४६३
मित्येवमवगम्यसूक्ष्मया कुशाग्रीयया बुद्धया प्रत्युपेक्ष्य' पर्यालोच्य तद्यथा अहमनेनैवंभूतमर्थपदं 'लम्भितः' प्रापितः सन्नसावपितावल्लौकिकस्तमुपदेशदातारमाद्रियते-पूज्योऽयमित्येवंजानाति, तथा कल्याणं मङ्गलं देवतामिव स्तौति पर्युपास्ते च, यद्यप्यसौ पूजनीयः किमपि नेच्छति तथापि तेन तस्य परमार्थोपकारिणो यथाशक्ति विधेयम् ।
तदेवं गौतमस्वामिनाऽभिहित उदक इदमाह-तद्यथा-एतेषां पदानां पूर्वमज्ञानतयाऽश्रवणतयाऽबोध्या चेत्यादिना विशेषणकदम्बकेनन श्रद्धानं कृतवान्, साम्प्रतं तु युष्मदन्तिके विज्ञायैनमर्थं श्रद्दघेऽहं ।। एवमगवगम्य गौतमस्वाम्युदकमेवाह-यथा अस्मिन्नर्थे श्रद्धानं कुरु, नान्यथा सर्वज्ञोक्तं भवतीतिमत्वा, पुनरप्युदक एवमाह-इप्टमेवैतन्मे, किं त्वमुष्माच्चातुर्यामिकाद्धर्मात्पञ्चयामिकं धर्मंसम्प्रति सप्रतिक्रमणमुपसंपद्यविहर्तुमिच्छामि । ततोऽसौ गौतमस्वामी तंगृहीत्वा तीर्थकरान्तिकं जगाम । उदकश्च भगवन्तं वन्दित्वा पञ्चयामिकधर्मग्रहणायोत्थितः, भगवताऽपितस्य सप्रतिक्रमणः पञ्चयामोधर्मोऽनुज्ञातः, सचतंतथाभूतं धर्ममुपसंपद्य विहरतीति इति परिसमाप्तयर्थे । ब्रवीमीति पूर्ववत्, सुधर्मस्वामी स्वशिष्यानिदमाह, तद्यथा-सोऽहं ब्रवीमि येन मया भगवदन्तिके श्रुतमिति । गतोऽनुगमः ।
अध्ययन-७ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाङ्काचार्यविरचिता
द्वीतीयश्रुतस्कन्धस्य सप्तममध्ययनटीका परिसमाप्ता । साम्प्रतं नयाः, ते चामी-नैगम १ संग्रह २ व्यवहार ३ र्जुसूत्र ४ शब्द ५ समभिरूडै ६ वंभूता ७ ख्याः सप्तैव, तेषां च मध्ये नैगमाद्याश्चत्वारोऽप्यर्थनयाः अर्थमेव प्राधान्येन शब्दोपसर्जनमिच्छन्ति, शब्दाद्यास्तुत्रयःशब्दनयाः शब्दप्राधान्येनार्थमिच्छन्ति। तत्र नैगमस्येदं स्वरूपं, तद्यथा-सामान्यविशेषात्मकस्य वस्तुनो नैकेन प्रकारेणावगमः-परिच्छेदो निगमस्तत्रभवो नैगमो, नैकगमो वा नैगमः- महासामान्यापान्तरालसामान्यविशेषाणां परिच्छेदकः, तत्र महासामान्य सर्वपदार्थानुयानी सत्ता अपान्तरालसामान्यं द्रव्यत्वजीवत्वाजीवत्वादिकं, विशेषाः परमाण्वादयस्तद्गता वा शुक्लादयो गुणाः, तदेतत्रितयमप्यसाविच्छतीति, निलयनप्रस्थकादिदृष्टान्तैरनुयोगद्वारप्रसिद्धस्तत्स्वरूपमवसेयम्, अयं च नैगमः सामान्यविशेषा-त्मकवस्तुसमाश्रयणेऽपि न सम्यग्दृष्टि, भेदेनैव सामान्यविशेषयोराश्रयणात्, तन्मता- श्रितनैयायिकवैशेषिकवत् ।
तथा संग्रहोऽप्येवंस्वरूपः, तद्यथा-सम्यक पदार्थानां सामान्याकारतया ग्रहणं सङ्गहः, तथाहि-अप्रच्युतानुत्पन्नस्थिरैकस्वभावमेव सत्तारूपं वस्त्वसावभ्युपगच्छति,सत्तातो व्यतिरिक्तस्यावस्तुत्वं खरविषाणस्येव, सच संग्रहःसामान्यविशेषात्मकस्यवस्तुनःसामान्यांशस्यैवाश्रयणान्मिथ्याष्टिः, तन्मताश्रितसांख्यवत् । व्यवहारनयस्य तु स्वरूपमिदं, तद्यथा-यथालोकग्राहमेव वस्तु, यथा चशुष्कतार्किकैः स्वाभिप्रायकृतलक्षणानुगतंतथाभूतंवस्तुनभवत्येव, नहि प्रतिलक्षणमर्थानामात्मभेदो भवति, किं तर्हि ? यथा यथा लोकेन विशिष्टभूयिष्ठ-तयाऽर्थक्रियाकारि वस्तु व्यवहियते तथैव तद्वस्त्वित्याबालगोपालङ्गनादिप्रसिद्धत्वाद्वस्तुस्वरूपस्येति, अयमप्युत्पादव्ययध्रौव्ययुक्तस्य वस्तुनोऽनभ्युपगमात् मिथ्याष्टिः, तथाविधरथ्यापुरुषवदिति।।
ऋजुसूत्रमतं त्विदं-ऋजु-प्रगुणं तच्च विनष्टानुत्पन्नतयाऽतीतनागतवक्रपरित्यागादिति, अयमपि सामान्यविशेषोभयात्मकस्य वस्तुनः सामान्यांशपरित्यागेन विशेषांशस्यैव समाश्रयणाच्छौद्धोदनिवन्न सम्यग्दृष्टिः, कारणभूतद्रव्यानभ्युपगमेन तदाश्रितविशेषस्यैवाभावादिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org