________________
श्रुतस्कन्धः - २, अध्ययनं - ७,
४६१
तत्थ जे ते परेणं तसथावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए० ते तओ आउं विप्पजहंति विप्पजहित्ता तत्थ आरेणं जे थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अनिक्खित्ते अणट्ठाए निक्खित्ते तेसु पञ्चायंति, जेहिं समणोवासगस्स सुपच्चक्खायं भवइ, ते पाणावि जाव अयंपि भेदे से नो० ।
भगवं चणं उदाहुन एतं भूयं न एतंभव्वं न एतं भविस्संति जण्णं तसा पाणा वोच्छिजिहिंति थावरा पाणा भविस्संति, थावरा पाणावि वोच्छिजिहिंति तसा पाणा भविस्संति, अवोच्छिन्नेहिं तसथावरेहिं पाणेहिं जण्णं तुब्भे वा अन्नो वा एवं वदह-नत्थि णं से केइ परियाए जाव नो नेयाउए भवइ ।
वृ. एवमन्यान्यप्यष्ट सूत्राणि द्रष्टानि सर्वाण्यपि, नवरं तत्र प्रथमे सूत्रे तदेव यद्वयाख्यातं, तच्चेवंभूतं, तद्यथा-गृहीतपरिमाणे देशे ये त्रसास्ते गृहीतपरिमाणदेशस्थास्तेष्वेव त्रसेषूत्पद्यन्ते । तथा द्वितीयं सूत्रं त्वाराद्देशवर्तिनस्त्रसाः आराद्देशवर्तिषु स्थावरेषूत्पद्यन्ते । तृतीये त्वाराद्देशवर्तिनस्त्रसा गृहीतपरिमाणाद्देशाद्बहिर्येत्रसाः स्थावराश्च तेषूत्पद्यन्ते ।। तथा चतुर्थसूत्रं त्वाराद्देशवर्तिनो ये स्थावरास्ते तद्देशवर्तिष्वेव त्रसेषूत्पद्यन्ते ।
पञ्चमं सूत्रं तु आराद्देशवर्तिनो ये स्थावरास्ते तद्देशवर्तिष्वेव स्थावरेषूत्पद्यन्ते ।। षष्ठं सूत्रं तु परदेशवर्तिनो ये स्थावरास्ते गृहीतपरिमाणस्थे (परदेशवत्ति) षु त्रसस्थावरेषूत्पद्यन्ते ॥ सप्तमसूत्रं त्विदं-परदेशवर्तिनो ये त्रसस्थावरास्ते आराद्देशवर्तिषु त्रसेषूत्पद्यन्ते ॥ अष्टमसूत्रं तु परदेशवर्तिनो ये सस्थावरास्ते आराद्देशवर्तिषु स्थावरेषूत्पद्यन्ते ।। नवमसूत्रं तु परदेशवर्तिनो ये त्रसस्थावरास्ते परदेशवर्तिष्वेव त्रसस्थावरेषूत्पद्यन्ते । एवमनया प्रक्रियया नवापि सूत्राणि भणनीयानि, तत्र यत्र यत्र त्रसास्तत्रादाशनः- आदेरारभ्य श्रमणोपासकेनामरणान्तो दण्डस्त्यक्त इत्येवं योजनीयं, यत्र तु स्थावरास्तत्रार्थाय दण्डो न निक्षिप्तो न परित्यक्तोऽनर्थाय च दण्डः परित्यक्त इति । शेषाक्षरघटना तु स्वबुद्धया विधेयेति ।
तदेवं बहुभिर्धष्टान्तैः सविषयतां श्रावकप्रत्याख्यानस्य प्रसाध्याधुनात्यन्तासंबद्धतां चोद्यस्य सूत्रेणैव दर्शयितुमाह-'भगवंच णं उदाहु' रित्यादि, भगवान् गौतमस्वाम्युदकं प्रत्येतदाह, तद्यथानैतद्भूतमनादिके काले प्रागतिक्रान्ते नाप्येतदेष्येऽनन्ते काले भाव्यं नाप्ये तद्वर्तमानकाले भवति ये त्रसाः प्राणाः सर्वथा निर्लेपतया स्वजात्युच्छेदेनोच्छेत्स्यन्ति स्थावरा भविष्यन्तीति, तथा स्थावराश्च प्राणिनः कालत्रयेऽपि नैव समुच्छेत्स्यन्ति त्रसा भविष्यन्ति, यद्यपि तेषां परस्परसंक्रमेण गमनमस्ति तथापि न सामस्त्येनान्यतरेषामितरत्र सद्भावः, तथाहि न ह्येवंभूतः संभवोऽस्ति यदुत प्रत्याख्यानिनमेकं विहायापरेषां नारकाणां द्वीन्द्रियादीनां तिरश्चां मनुष्यदेवानां च सर्वदाऽप्यभावः
एवं च सविषयं प्रत्याख्यानं निर्विषयं भवति यदि तस्य प्रत्याख्यानिनो जीवत एव सर्वेऽपि नारकादयस्त्रसाः समुच्छिद्यन्ते, न चास्य प्रकारस्य संभवोऽस्त्युक्तन्यायेनेति, स्थावराणां चानन्तानाम- नन्तत्वादेव नासंख्येयेषु त्रसेषूत्पाद इति सुप्रतीतमिदं । तदेवमव्यवच्छिन्नैस्त्रसैः स्थावरैश्च प्राणिभिर्यद्वदत यूयमन्यो वा कश्चिद्वदति, तद्यथा-नास्त्यसौ पर्यायो यत्र श्रमणोपासकस्यैक त्रसविषयोऽपि दण्डपरित्याग इति, तदेतदुक्तनीत्या सर्वमशोभनमिति । सांप्रतमुपसंजिघृक्षुराह
मू. (८०६) भगवं च णं उदाहु आउसंतो! उदगा जे खलु समणं वा माहणं वा परिभासेइ मित्ति मन्नति आगमित्ता नाणं आगमित्ता दंसणं आगमित्ता चरित्तं पावाणं कम्माणं अकरणयाए से खलु परलोगपलिमंथत्ताए चिट्ठइ, जे खलु समणं वा माहणं वा नो परिभासइ मित्ति मन्नंति आगमित्ता नाणं आगमित्ता दंसणं आगमित्ता चरितं पावाणं कम्माणं अकरणयाए से खलु
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International