SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ४१२ सूत्रकृताङ्ग सूत्रम् २/५/-/७२२ वृ.वेदना-कर्मानुभवलक्षणा तथा निर्जरा-कर्मपुद्गलशाटनलक्षणा एते द्वेअपि न विद्यते इत्येवंनोसंज्ञांनिवेशयत्। तदभावं प्रत्याशङ्काकारणमिदं, तद्यथा-पल्योपमसागरोपमशतानुभवनीयं कर्मान्तर्मुहूर्तेनैव क्षयमुपयातीत्यभ्युपगमात्, तदुक्तम्॥१॥ “जं अन्नाणी कम्मं खवेइ बहुयाहिं वासकोडीहिं । तं नाणी तिहि गुत्तोखवेइ ऊसासमित्तेणं॥ इत्यादि, तथा क्षपकश्रेण्यांचझटित्येवकर्मणोभस्मीकरणाद्यथाक्रमबद्धस्यचानुभवनाभावे वेदनायाअभावः तदभावाच निर्जरायाअपीत्येवंनोसंज्ञां निवेशयेत्।किमिति?,यतः कस्यचिदेव कर्मण एवमनन्तरोक्तया नीत्या क्षपणात्तपसा प्रदेशानुभवेन च अपरस्य तूदयोदीरणाभ्यामनुभवनमित्यतोऽस्तिवेदना, यतआगमोऽप्येवंभूत एव, तद्यथा-'पुट्विं दुचिण्णाणंदुप्पडिकंताणं कम्माणं वेइत्ता मोक्खो, नत्थि अवेइत्ता' इत्यादि, वेदनासिद्धौ च निर्जराऽपि सिद्धैवेत्यतोऽस्ति वेदना निर्जरा चेत्येवं संज्ञां निवेशयेदिति । मू. (७२३) नत्थि किरिया अकिरिया वा, नेवं सन्नं निवेसए। ____ अस्थि किरिया अकिरिया वा, एवं सत्रं निवेसए॥ वृ. वेदनानिर्जरेच क्रियाऽक्रियायत्ते,ततस्तत्सद्भावं प्रतिषेधनिषेधपूर्वकंदर्शयितुमाहक्रिया-परिस्पन्दलक्षणा तद्विपर्यस्ता त्वक्रिया, ते द्वे अपि 'न स्तो' न विद्येते, तथाहि-सांख्यानां सर्वव्यापित्वादात्मन आकाशस्येव परिस्पन्दात्मिका क्रियान विद्यते, शाक्यानांतुक्षणिकत्वात्सर्वपदार्थानां प्रतिसमयमन्यथा चान्यथा चोत्पत्तेः पदार्थसत्तैव, नतद्व्यतिरिक्ता काचिक्रियाऽस्ति, तथाचोक्तम्-“भूतिर्येषां क्रियासैव, कारकं सैवचोच्यते" इत्यादि, तथा सर्वपदार्थानां प्रतिक्षणमवस्थान्तरगमनात्सक्रियत्वमतोऽक्रिया न विद्यते इत्येवं संज्ञांनो निवेशयेत्, किंतर्हि ?, अस्ति क्रिया अक्रिया चेत्येवं संज्ञां निवेशयेत् तथाहि-शरीरात्मनोर्देशाद्देशान्तरावाप्तिनिमित्तापरिस्पन्दात्मिका क्रिया प्रत्यक्षेणैवोपलभ्यते, सर्वथा निष्क्रियत्वे चात्मनोऽभ्युपगम्यमाने गगनस्येव बन्धमोक्षाद्यभावः, स च दृष्टेष्टबाधितः, तथा शाक्यानामपि प्रतिक्षणोत्पत्तिरेव क्रियेत्यतः कथं क्रियाया अभावः?, अपि च-एकान्तेन क्रियाऽभावेसंसारमोक्षाभावःस्यादित्यतोऽस्तिक्रिया, तद्विपक्षभूताचाक्रियेत्येवंसंज्ञांनिवेशयेदिति तदेवं सक्रियात्मनि सति क्रोधादिसद्भाव इत्येतद्दर्शयितुमाहमू. (७२४) नथि कोहे व माणे वा, नेवं सन्नं निवेसए। अस्थि कोहे व माणे वा, एवं सन्नं निवेसए॥ वृ. स्वपरात्मनोरप्रीतिलक्षणः क्रोधः, च चानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनभेदेन चतुर्धाऽऽगमे पठ्यते, तथैतावद्भेद एव मानो गर्व, एतौ द्वावपि 'न स्तो' न विद्येते, तथाहि-क्रोधः केषांचिन्मतेनमानांशएव अभिमानग्रहगृहीतस्यतत्कृतावत्यन्तक्रोधोदयदर्शनात्, क्षपक श्रेण्यां च भेदेन क्षपणानभ्युपगमात्, तथा किमयमातम्धर्म आहोस्वित्कर्मण उतान्यस्येतितत्रात्मधर्मत्वेसिद्धानामपिक्रोधोदयप्रसङ्गः,अथ कर्मणस्ततस्तदन्यकषायोदयेऽपि तदुदय-प्रसङ्गात् मूर्तत्वाच्च कर्मणोघटस्येव तदाकारोपलब्धिः स्याद्, अन्यधर्मत्वेत्वकिञ्चित्करत्वमतो नास्ति क्रोध इत्येवं मानाभावोऽपि वाच्य इत्येवं संज्ञांनो निवेशयेत्।। __ यतः कषायकर्मोदयवर्ती दष्टोष्ठः कृतभृकुटीभङ्गो रक्तवदनो गलत्स्वेदबिन्दुसमाकुलः क्रोधामातः समुपलभ्यते, न चासौ मानांशः, तत्कार्याकरणात्तथापरनिमित्तोत्थापितत्वाच्चेति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy