________________
४१०
सूत्रकृताङ्ग सूत्रम् २/५/-/७१७ अजीवा न विद्यन्ते सर्वस्यैव चेतनाचेतनरूपस्यात्ममात्रविवर्त्तत्वात् नो एवं संज्ञां निवेशयेत्, किंत्वस्ति जीवः सर्वस्यास्य सुखदुःखादेर्निबन्धनभूतः स्वसंवित्तिसिद्धोऽहंप्रत्यय ग्राह्यः तथा तद्वयतिरिक्ता धर्माधर्माकाशपुद्गलादयश्च विद्यन्ते, सकलप्रमाणज्येष्ठेन प्रत्यक्षेणानुभूयमानात्वात्तद्गुणानां, भूतचैतन्यवादी च वाच्यः किं तानि भवदभिप्रेतानि भूतानि नित्यान्युतानित्यानि ?
यदि नित्यानि ततोऽप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वान्नकायाकारपरिणति, नापि प्रागविद्यमानस्य चैतन्यस्य सद्भावो, नित्यत्वहानेः । अथानित्यानि किं तेष्वविद्यमानमेव चैतन्यमुत्पद्यते आहोस्विद्विद्यमानं ?, न तावदविद्यमानमतिप्रसङ्गाद्, अभ्युपेतागमलोपाद्वा, अथ विद्यमानमेव सिद्धं तर्हि जीवत्वम् । तथाऽऽत्माद्वैतवाद्यपि वाच्यः- यदि पुरुषमात्रमेवेदं सर्वं कथं घटपटादिषु चैतन्यं नोपलभ्यते ?, तथा तदैक्येऽभेदनिबन्धनानां पक्षहेतदृष्टान्तानामभावात्साध्यसाधनाभावः, तस्मान्नैकान्तेन जीवाजीवयोरभावः, अपितु सर्वपदार्थानां स्याद्वादाश्रयणाज्जीवः स्याज्जीवः स्यादजीवः अजीवोऽपि च स्यादजीवः स्याज्जीव इति ।
एतच स्याद्वादाश्रयणं जीवपुद्गलयोरन्योऽन्यानुगतयोः शरीरप्रत्यक्षतयाऽध्यक्षेणवोपलम्भादृष्टव्यमिति जीवास्तित्वे च सिद्धे तन्निबन्धनयोः सदसत्क्रियाद्वारायातयोर्धर्माधर्मयोरस्तित्वप्रतिपादनायाहमू. (७१८)
नत्थि धम्मे अधम्मे वा, नेवं सन्नं निवेसए । अत्थि धम्मे अधम्मे वा, एवं सन्नं निवेस ॥
वृ. 'धर्मः ' श्रुतचारित्रात्मको जीवस्यात्मपरिणामः कर्मक्षयकारणम्, एवमधर्मोऽपि मिथ्यात्वाविरतिप्रमादकषाययोगरूपः कर्मबन्धकारणमात्मपरिणाम एव, तावेवंभूतौ धर्माधर्मी कालस्वभावनियतीश्वरादिमतेन न विद्येते इत्येवं संज्ञां नो निवेशयेत्-कालादय एवास्य सर्वस्य जगद्वैचित्र्यस्य धर्माधर्मव्यतिरेकेणैकान्ततः कारणमित्येवमभिप्रायं न कुर्याद्, यतः त एवैकका न कारणमपि तु समुदिता एवेति, तथा चोक्तम्
119 11
" न हि कालादीहिंतो केवलएहिंतो जायए किंचि । इह मुग्गरंधणाइविता सव्वे समुदिया हेऊ ।। इत्यादि । यतो धर्माधर्मान्तरेण संसारवैचित्र्यं न घटामियर्त्यतोऽस्ति धर्मसम्यग्दर्शनादिकोऽधर्मश्चमिथ्यात्वादिक इत्येवं संज्ञां निवेशयेदिति ।
मू. (७१९)
नत्थि बंधे व मोक्खे वा, नेवं सन्नं निवेसए ।
अत्थि बंधे व मोक्खे वा, एवं सन्नं निवेस ॥
वृ. सतोश्च धर्माधर्मयोर्बन्धमोक्षसद्भाव इत्येतद्दर्शयितुमाह-बन्धः- प्रकृतिस्थित्यनुभावनदेशात्मकतया कर्मपुद्गलानां जीवेन स्वव्यापारतः स्वीकरणं, स चामूर्तस्यात्मनो गगनस्येव न विद्यत इत्येवं नो संज्ञां निवेशयेत्, तथा तदभावाच्च मोक्षस्याप्यभाव इत्येवमपि संज्ञां नो निवेशयेत् कथं तर्हि संज्ञां निवेशयेदित्युत्तरार्द्धेन दर्शयति-अस्ति बन्धः कर्मपुद्गलैर्जीवस्येत्येवं संज्ञां निवेशयेदिति, यत्तच्यते ।
-
अमूर्तस्य मूर्तिमता सम्बन्धो न युज्यत इति, तदयुक्तम्, आकाशस्य सर्वव्यापितया पुद्गलैरपि सम्बन्धो दुर्निवार्यः, तदभावे तद्वयापित्वमेव न स्याद्, अन्यच्च अस्य विज्ञानस्य ह्यत्पूरमदिरादिना विकारः समुपलभ्यते न चासौ सम्बन्धमृते अतो यत्किञ्चिदेतत् । अपिच संसारिणामसुमतां सदा तैजसकार्मणशरीरसद्भावादत्यन्तिकममूर्त्तत्वं न भवतीति । तथा तव्प्रतिपक्षभूतो मोक्षोऽप्यस्ति,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International