________________
४०८
सूत्रकृताङ्ग सूत्रम् २/५/-/७१५ विद्यत' इतिकृत्वा सांख्याभिप्रायेण सत्त्वरजस्तमोरूपस्य प्रधानस्यैकत्वात्तस्य च सर्वस्यैव कारणत्वात् अतः सर्वं सर्वात्मकमित्येवं व्यवस्थिते 'सर्वत्र' घटपटादी अपरस्य - व्यक्तस्य 'वीर्यं' शक्तिर्विद्यते, सर्वस्यैव हि व्यक्तस्य प्रधानकार्यत्वात्कार्यकारणयोश्चैकत्वाद्, अतः सर्वस्य सर्वत्र वीर्यमस्तीत्येवं संज्ञां नो निवेशयेत्, तथा 'सर्वे भावाः स्वभावेन, स्वस्वभावव्यवस्थिता' इति प्रतिनियतशक्तित्वान्न सर्वत्र सर्वस्य 'वीर्य' शक्तिरित्येवमपि संज्ञां नो निवेशयेत् । युक्तिश्चात्र- यत्तावदुच्यते 'सांख्याभिप्रायेण सर्वं सर्वात्मकं देशकालाकारप्रतिबन्धात्तु न समानकालोपलब्धि' रिति, तदयुक्तं, यतो भेदेन सुखदुःखजीवितमरणदूरासन्नसूक्ष्मबादरसुरूपकुरूपादिकं संसारवैचित्र्यमध्यक्षेणानुभूयते, न च दृष्टेऽनुपपन्नं नाम, न च सर्वं मिथ्येत्यभ्युपपत्तुंयुज्यते, यतो दृष्टहानिरध्ष्टकल्पना च पापीयसी ।
किंच-सर्वथैक्येऽभ्युपगम्यमाने संसारमोक्षाभावतया कृतनाशोऽकृताभ्यागमश्च बलाद पतति, यञ्चैतत् सत्वरजस्तमसां साम्यावस्था प्रकृति प्रधानमित्येतत्सर्वस्यास्य जगतः कारणं तन्निरन्तराः सुहृदः प्रत्येष्यन्ति, निर्युक्तिकत्वाद्, अपिच सर्वथा सर्वस्य वस्तुन एकत्वेऽभ्युपगम्यमाने सत्त्वरजस्तमसामप्येकत्वं स्यात्, तद्भेदे च सर्वस्य तद्वदेव भेद इति । तथा यदप्युच्यते'सर्वस्य व्यक्तस्य प्रधानकार्यत्वात्सत्कार्यवादाच्च मयूराण्डकरणे चञ्चपिच्छादीनां सतामेवोत्पादाभ्युपगमाद् असदुत्पादे चाम्रफलादीनामप्युत्पत्तिप्रसङ्गादित्येतद्वाङ्गात्रं, तथाहि यदि सर्वथा कारणे कार्यमस्ति न तर्ह्यत्पादो निष्पन्नघटस्येव, अपिच मृत्पिण्डावस्थायामेव घटगताः कर्मगुणव्यपदेशा भवेयुः, न च भवन्ति, ततो नास्ति कारणे कार्यम्, अधानभिव्यक्तमस्तीति चेन्न तर्हि सर्वात्मना विद्यत, नाप्येकान्तेनासत्कार्यवाद एव तद्भावे हि व्योमारविन्दानामप्येकान्तेनासतां मृत्पिण्डादेर्घटादेरिवोत्पत्ति स्यात्, न चैतदुष्टमिष्टं वा ।
अपिच एवं सर्वस्य सर्वस्मादुत्पत्तेः कार्यकारणभावानियमः स्याद्, एवं च न शाल्यङ्कुरार्थी शालीबीजमेवादद्याद, अपि तु यत्किञ्चिदेवेति, नियमेन च प्रेक्षापूर्वकारिणामुपादानकारणादौ प्रवृत्तिः, अतो नासत्कार्यवाद इति । तदेवं सर्वपदार्थानां सत्त्वज्ञेयत्वप्रमेयत्वादिभिर्धर्मैः कथञ्चिदेकत्वं तथा प्रतिनियतार्थकार्यतया यदेवार्थक्रियाकारि तदेव परमार्थतः सदितिकृत्वा कथञ्चिद्भेद इति सामान्यविशेषात्मकं वस्त्विति स्थितम् । अनेन च स्यादस्ति स्यान्नास्तीतिभङ्गकद्वयेन शेषभङ्कका अपि द्रष्टव्याः, ततश्च सर्वं वस्तु सप्तभङ्गीस्वभावं ।
ते चामी -स्वद्रव्य क्षेत्रकालभावापेक्षया स्यादस्ति, परद्रव्याद्यपेक्षया स्यान्नास्ति, अनयोरेव धर्मयोर्यौगपद्येनाभिधातुमशक्यत्वात्स्यादवक्तव्यं, तथा कस्यचिदंशस्य स्वद्रव्याद्यपेक्षया विवक्षितत्वात्कस्यचिच्चांशस्य परद्रव्याद्यपेक्षया विवक्षितत्वात् स्यादस्ति च स्यान्नास्ति चेति, तथैकस्यांशस्य स्वद्रव्याद्यपेक्षया परस्य तु सामस्त्येन स्वपरद्रव्याद्यपेक्षया विवक्षितत्वात्स्यादस्ति चावक्तव्यं चेति, तथैकस्यांशश्य परद्रव्याद्यपेक्षया परस्य तु परद्रव्याद्यपेक्षयाऽन्यस्य तु यौगपद्येन स्वपरद्रव्याद्यपेक्षया विवक्षितत्वात्स्यादस्ति च नास्ति चावक्तव्यं चेति, इयं च सप्तभङ्गी यथायोगमुत्तरत्रापि योजनीयेति तदेवं सामान्येन सर्वस्यैव वस्तुनो भेदाभेदी प्रतिपाद्याधुना सर्वशून्यवादिमतनिरासेन लोकालोकयोः प्रविभागेनास्तित्वं प्रतिपादयितुकाम आह-यदिवा 'सर्वत्र वीर्यमस्ति नास्ति सर्वत्र वीर्य' मित्यनेन सामान्येन वस्त्वस्तित्वमुक्तं, तथाहि सर्वत्र वस्तुनो 'वीर्य' शक्तिरर्थक्रियासामार्थ्यमन्तशः स्वविषयज्ञानोत्पादनं, तच्चैकान्तेनात्यन्ताभावाच्छशविषाणादेरप्यस्तीत्येवं संज्ञां न निवेशयेत् सर्वत्र वीर्यं नास्तीति नो एवं संज्ञा निवेशयेदिति, अनेनाविशिष्टं वस्त्वस्तित्वं प्रसाधितम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org