SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ४०६ सूत्रकृताङ्ग सूत्रम् २/५/-/७१० वैरंतत् 'सदृशं समानं तुल्यप्रदेशत्वात्सर्वजन्तूनामित्येवमेकान्तेन नो वदेत्, तथा विसद्दशम्' असशं तद्वयापत्ती वैरं कर्मबन्धो विरोधो वा इन्द्रियविज्ञानकायानां विसध्शत्वात् सत्यपि प्रदेशतुल्यत्वे न सशं वैरमित्येवमपिनो वदेत् । यदि हि वध्यापेक्ष एव कर्मबन्धः स्यात्तदा तत्तद्वशात्कर्मणोऽपि साध्श्यमसाश्यं वा वक्तुंयुज्येत, नचतद्वशादेवबन्धः अपित्वध्यवसायवशादपि,ततश्चतीव्राध्यवसायिनोऽल्पकायसत्त्वव्यापादनोऽपि महद्वैरम्, अकामस्य तु महाकायसत्त्वव्यापादनेऽपि स्वल्पमिति । मू. (७११) एएहिं दोहिं ठाणेहिं, ववहारो न विजई। एएहिं दोहिं ठाणेहिं, अनायारंतु जाणए । वृ.एतदेव सूत्रेणैवदर्शयितुमाह-अभ्यामनन्तरोक्ताभ्यां स्थानाभ्यामनयोर्वा स्थानयोरल्पकायमहाकायव्यापादनापादितकर्मबन्धसशत्वासशत्वयोर्व्यवहरणंव्यवहारो नियुक्तिकत्वान्न युज्यते, तथाहि-न वध्यस्य सहशत्वमसशत्वं चैकमेव कर्मबन्धस्य कारणम्, अपितु वधकस्य तीव्रभावो मन्दभावो ज्ञानभावोऽज्ञानभावो महावीर्यत्वमल्पवीर्यत्वं चेत्येतदपि । तदेवं वध्यवधकयोर्विशेषात्कर्मबन्धविशेष इत्येवं व्यवस्थिते वध्यमेवाश्रित्य सध्शत्वासशत्वव्यवहारोन विद्यत इति। तथाऽनयोरेवस्थानयोःप्रवृत्तस्यानाचारंविजानीयादिति, तथाहि-यजीवसाम्यात्कर्मबन्धसध्शत्वमुच्यते, तदयुक्तं, यतो न हिजीवव्यापत्याहिंसोच्यते, तस्शा साश्वतत्वेन व्यापादयितुमशक्यत्वाद्, अपि त्विन्द्रियादिव्यापत्ताय, तथा चोक्तम् - ॥१॥ “पञ्चेन्द्रियाणि त्रिविधं बलंच, उच्छासनिश्वासमथान्यदायुः । प्राणा दशैते भगवदिभिरुक्तास्तेषां वियोजीकरणं तु हिंसा ।। इत्यादि । अपिच भावसव्यपेक्षस्यैव कर्मबन्धोऽभ्युपेत्तुं युक्तः, तथाहि-वैद्यस्यागमसव्यपेक्षस्य सम्यक् क्रियां कुर्वतो यद्यप्यातुरविपत्तिर्भवति तथापिनवैरानुषङ्गो भावदोषाभावाद्, अपरस्य तु सर्पबुध्या रज्जुमपि जतो भावदोषात्कर्मबन्धः, तद्रहितस्य तु न बन्ध इति, उक्तं चागमे उच्चालियंमिपाए'इत्यादि, तण्डुलमत्स्याख्यानकंतु सुप्रसिद्धमेव॥तदेवंविधवध्यवधकभावापेक्षया स्यात् सशत्वं स्यादसध्शत्वमिति, अन्यथाऽनाचार इति। पुनरपि चारित्रमधिकृत्याहारविषयानाचाराचारौ प्रतिपादयितुकाम आहमू. (७१२) अहाकम्माणि भुंजंति, अन्नमन्ने सकम्मुणा। उवलित्तेति जाणिज्जा, अनुवलित्तेति वा पुणो॥ ७.सा,प्रधानकारणमाधाय-आश्रित्यकर्माण्याधाकर्माणि,तानिचवस्त्रभोजनवसत्यादीन्युच्यन्ते, एतान्याधाकर्माणि ये भुअन्ते- एतैरुपभोगं ये कुर्वन्ति 'अन्योऽन्यं परस्परं तान् स्वकीयेन कर्मणोपलिप्तान विजानी- यादित्येवं नो वदेत्, तथाऽनुपलिप्तानिति वा नो वदेत्, एतदुक्तं भवति-आधाकर्मापि श्रुतोपदेशेन शुद्धमितिकृत्वा भुआनः कर्मणा नोपलिप्यते, तदाधाकर्मोपभोगेनावश्ययाकर्मबन्धो भवतीत्येवंनो वदेत्, तथा श्रुतोपदेशमन्तरेणाहारगृध्द्याऽऽधाकर्म भुआनस्यतन्निमित्तकर्मबन्धसद्भावात् अतोऽनुलिप्तानपिनोवदेत्, यथावस्थितमौनीन्द्रागमज्ञस्य त्वेवं युज्यते वक्तुम्-आधाकर्मोपभोगेन स्यात्कर्मबन्धः स्यानेति, यत उक्तम् - ॥१॥ "किंचिच्छुद्धं कल्प्यमकल्प्यं वा स्यादकल्प्यमपि कल्प्यम्। पिण्डः शय्या वस्त्रं पात्रं वा भेषजाधंवा ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy