SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ३९४ सूत्रकृताङ्ग सूत्रम् २/४/-/७०१ मिच्छासंठिते निश्चं पसढविउवायचित्तदंडे, तं०-पाणातिवाए जाव मिच्छादसणसल्ले, एवं खलु भगवया अक्खाए असंजए अविरए अप्पडिहयपच्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते याविभवइ, से बाले अवियारमणवयणकायवक्के सुविणमविन पस्सइ पावे य से कम्मे कज्जइ। जहा से वहएतस्स वागाहावइस्सजावतस्स वा रायपुरिसस्स पत्तेयंपत्तेयं चित्तसमादाए दिया वा राओ वा सुत्तेवा जागरमाणे वा अमित्तभूए मिच्छासंठिते निचं पसढविउवायचित्तदंडे भवइ, एवमेव बाले सव्वेसिं पाणाणं जाव सव्वेसिं सत्ताणं पत्तेयं पत्तेयं चित्तसमादाए दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते निच्चं पसढविउवायचित्तदंडे भवइ । वृ. 'असंतएणमित्यादि, अविद्यमानेन-असतामनसाऽप्रवृत्तेनाशोभनेनतथा वाचा कायेन चपापेनासता तथा सत्त्वानघ्नतः तथाऽमनस्कस्याविचारमनोवाक्कायवाक्यस्य स्वप्नमप्यपश्यतः स्वप्नान्तिकंच कर्म नोपचयं यातीत्येवमव्यक्तविज्ञानस्य पापं कर्मन बध्यते, एवंभूतविज्ञानेन पापं कर्म न क्रियत इतियावत् । 'कस्य हेतोः केन हेतुना केन कारणेन तत्पापं कर्म बध्यते?, नात्र कश्चिदव्यक्तविज्ञानत्वात्पापकर्मबन्धहेतुरिति भावः । तदेवं चोदक एव स्वाभिप्रायेण पापकर्मबन्धहेतुमाह-'अन्नयरेण मित्यादि, कर्माश्रवद्वारभूतैर्मनोवाक्कायकर्मभिःकर्मबध्यतइति दर्शयति-अन्यतरेण क्लिष्टेन प्राणातिपातादिप्रवृत्त्या मनसावाचाकायेनचतप्रत्ययिकंकर्मबध्यत इति, इदमेव स्पष्टतरमाह-नतस्सत्त्वान्समनस्कस्यसविचारमनोवाक्कायवाक्यस्य स्वप्नमपिपश्यतः प्रस्पष्टविज्ञानस्यैतद्गुणजातीयस्य पाप कर्मबध्यते,नपुनरेकेन्द्रियविकलेन्द्रियादेः पापकर्मसंभव इति, तेषां घातकस्य मनोवाक्कायव्यापारस्याभावात्, अथैद्वयापारमन्तरेणापि कर्मबन्ध इष्यते, एवंच सति मुक्तानामपि कर्मबन्धः स्यात्, न चैतदिष्यते, तस्मान्नैवमस्वप्नान्तिकमविज्ञोपचितं च कर्म बध्यत इति, तत्र यदेवंभूतैरेव मनोवाक्कायव्यापारैः कर्मबनधोऽभ्युपगम्यते तदेवं व्यवस्थिते सति ये ते एवमुक्तवन्तः-तद्यथा-अविद्यमानैरेवाशुभैर्योगैः पापं कर्म क्रियते, मिथ्यातएवमुक्तवन्त इतिस्थितम्॥तदेवंचोदकेनाचार्यपक्षंदूषयित्वा स्वपक्षे व्यवस्थापिते सत्याचार्य आह-तत्राचार्यः स्वमतमनूध तत्सोपपत्तिकं साधयितुमाह-'तं सम्म'मित्यादि, यदेतन्मयोक्तंप्राग्यथाऽस्पष्टाव्यक्तयोगानामपिकर्मबध्यते तत्सम्यक्-शोभनं युक्तिसंगतमिति, एवमुक्तेपर आह-'कस्य हेतोः' केन कारणेन तत्सम्यगितिचेदाह-'तत्थ खलु' इत्यादि, तत्रेति वाक्योपन्यासार्थं खलुशब्दो वाक्यालङ्कारे भगवता वीरवर्द्धमानस्वामिना षड् जीवनिकायाः कर्मबन्धहेतुत्वेनोपन्यस्ताः, तद्यथा-पृथिवीकायिका इत्यादि यावत्रसकायिका इति। ___ कथमेते षड्जीवनिकायाः कर्मबन्धस्य कारणमित्याह-'इच्चेएहि'मित्यादि, इत्येतेषु पृथिव्यादिषु षडजीवनिकायेषु प्रतिहतं विन्धितं प्रत्याख्यातं-नियमितं पापं कर्म येन स तथा, पुनर्नग्समासेनाप्रतिहतप्रत्याख्यातपापकर्मा य आत्मा-जन्तुस्तथा तद्भावत्वादेव नित्यं-सर्वकालं प्रकर्षेण शठःप्रशठस्तथा व्यतिपाते-प्राणव्यपरोपणे चित्तं यस्य स व्यतिपातचित्तः स्वपरदण्डहेतुत्वाद्दण्डः प्रशठश्चासौ व्यतिपातचित्तदण्डश्चेतिकर्मधारय इति, एतदेवप्रत्येकं दर्शयितुमाह'तंजहे त्यादि, तद्यथाप्राणातिपाते विधेयेप्रशठव्यतिपातचित्तदण्डः, एवंमृषावादादत्तादानमैथुनपरिग्रहेष्वपि वाच्यं, यावन्मिथ्यादर्शनशल्यमिति । तेषामिहैकेन्द्रियविकलेन्द्रियादीनाम निवृत्त Jain Education International For Private & Personal Use Only www.jainelibrary.org ww
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy