________________
श्रुतस्कन्धः - २, अध्ययनं - २,
ते तथा, शीलं व्रतविशेषः, स च भिन्नस्तेषामनुभवसिद्ध एव ।
तथानाना द्दष्टि : - दर्शनं येषां ते तथा, तथा नाना रुचिर्येषां ते नानारुचयः, तथा नानारूपमध्यवसानम्-अन्तःकरणप्रवृत्तिर्येषां ते तथा, इदमुक्तं भवति - अहिंसाऽत्र प्रधानं धर्माङ्ग, साच तेषां नानाभिप्रायत्वादविकलत्वेन न व्यवस्थिता । तस्या एव सूत्रकारः प्राधान्यं दर्शयितुमाह-ते सर्वेऽपि प्रावादुका यथास्वपक्षमाश्रिता एकत्र प्रदेशे संयुता मंडलिबन्धमाधाय तिष्ठन्ति तेषां चैवं व्यवस्थितानामेकःकश्चित्परुषस्तेषां संवित्त्यर्थं ज्वलतामङ्गाराणां प्रतिपूर्णां पात्रीम् - अयोमयं भाजनमयोमयेनैव संदंशकेन गृहीत्वा तेषां ढौकितवान्, उवाच च तान् यथा-भोः प्रावादुकाः ! पूर्वोक्तविशेषणविशिष्टा इदमङ्गारभृतं भाजनमकैकं मुहूर्तं प्रत्येकं बिभृत यूयं, न चेदं संदंशकं सांसारिकं नापि चाग्निस्तम्भनं विदध्युः नापि च साधर्मिकाऽन्यधार्मिकाणामग्निदाहोपशमादिनोपकारं कुर्युरिति, 'ऋजवो' मायामकुर्वाणाः पाणिं प्रसारयत, तेऽपि च तथैव कुर्यु, ततोऽसौ पुरुषः तद्भाजनं पाणौ समर्पयति, तेऽपिच दाहशड्या हस्तं सङ्कोचयेयुरिति, ततोऽसौ तानुवाचकिमिति पाणि प्रतिसंहरत यूयं ?, एवमभिहितास्ते ऊचुः - दाहभयादिति ।
एतदुक्तं भवति- अवश्यमग्निदाहभयान्न कश्चिदग्न्यभिमुखं पाणिं ददातीत्येतत्परोऽयं दृष्टान्तः । पाणिना दग्धेनाप किं भवतां भविष्यतीति ?, दुःखमिति चेद्यद्येवं भवन्तो दाहापादितदुःखभीरवः सुखलिप्सवः, तदेवं सति सर्वेऽपि जन्तवः संसारोदरविवरवर्तिन एवंभूता एवेत्येवम् ‘आत्मतुलया' आत्मौपम्येन यथा मम नाभिमतं दुःखमित्येवं सर्वजन्तूनामित्यवगम्याहिंसैव प्राधान्येनाश्रयणीया, 'तदेतत्प्रमाणं' सैषा युक्तिः 'आत्मवत्सर्वभूतानि यः पश्यति स पश्यति' तदेतत् समवसरणं स एव धर्मविचारो यत्राहिंसा संपूर्णा तत्रैव परमार्थतो धर्म, इत्येवं व्यवस्थिते तत्र ये केचनाविदितपरमार्थाः श्रमणब्राह्मणादयः एवं' वक्ष्यमाणमाचक्षते परेषामात्मदाढ्र्योत्पादनायैवं भाषन्ते तथैवमेव धर्मं 'प्रज्ञापयन्ति' व्यवस्थापयन्ति, तथा अनेन प्राण्युपतापकारिणा प्रकारेण परेषां धर्मं 'प्ररूपयन्ति' व्याचक्षते ।
३६९
तद्यथा- 'सर्वे प्राणा' इत्यादि, यावद्धन्तयव्या दण्डादिभिः परितापयितव्या धर्मार्थमरघट्टादिवहनादिभिः परिग्राह्या विशिष्टकाले श्राद्धादी रोहितमत्स्यादय इव तथाऽपद्रावयितव्या देवतायागादिनिमित्तं बस्तादय इवेत्येवं ये श्रमणादय- प्राणिनामुपतापकारिणीं भाषां भाषन्ते आगामिनि कालेऽनेकशो बहुशः स्वशरीरच्छेदाय भेदाय च भाषन्ते, तथा ते सावद्यभाषिणो भविष्यति काले जातिजरामरणानि बहूनि प्राप्नुवन्ति । योन्यां जन्म योनिजन्म तदनेकशो गर्भव्युत्क्रान्तजावस्थायां प्राप्नुवन्ति, तथा संसारप्रपञ्चान्तर्गतास्तेजोवायुषूञ्चैर्गौत्रोद्वलनेन कलङ्कलीभावभाजी भवन्ति बहुशो भविष्यन्ति च, तथा ते बहूनां दण्डादीनां शारीराणां दुःखानामात्मानं भाजनं कुर्वन्ति, तथा ते निर्विवेका मातृवधादीनां मानसानां दुःखानां तथाऽन्येषामप्रियसंप्रयोगार्थनाशादिभिर्दुखदौर्मनस्यानामाभागिनो भविष्यन्तीति ।
किं बहुनोक्तेन ?, उपसंहारव्याजेन गुरुतरमनर्थसंबन्धं दर्शयितुमाह-'अणादियं' इत्यादि, नास्यादिरस्तीत्यनादि-संसारः, तदनेनेदमुक्तं भवति यत्कैश्चिदभिहितं यथाऽयमण्डकादिक्रमेणोत्पादित इत्येतदपास्तं, न विद्यतेऽवदग्रं - पर्यन्तो यस्य सोऽयमनवदग्रोऽपर्यन्त इत्यर्थः,
1224
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org