________________
श्रुतस्कन्धः - २, अध्ययनं - 9,
परिनिर्वृताः अशेषकर्मक्षयं कृतवन्तः, इति ब्रवीमीति पूर्ववत् ।
साम्प्रतमध्ययनोपसंहारार्थमाह- 'एव' मिति पूर्वोक्तविशेषणकलापविशिष्टः स भिक्षुपुनरपि सामान्यतो विशिष्यते-धर्मश्रुतचारित्राख्यस्तेनार्थी धर्मार्थी, यथावस्थितं परमार्थतो धर्मं सर्वोपाधिविशुद्धं जानातीति, धर्मवित्, तथा नियागः-संयमो विमोक्षो वा कारणे कार्योपचारं कृत्वा तं प्रतिपन्नो नियागप्रतिपन्नः, स चैवंभूतः पञ्चमपुरुषजातः, तं चाश्रित्य तत्यथेदं प्राक् प्रदर्शितं तत्सर्वमुक्तं, स च प्राप्तो वा स्यात्पद्मवरपौण्डरीकम् अनुग्राह्यं पुरुषविशेषं चक्रवर्त्यादिकं, तत्प्राप्तिश्च परमार्थतः केवलज्ञानावाप्तौ सत्यां भवति, साक्षाद्यथाऽवस्थितवस्तुस्वरूपपरिच्छित्तेः, अप्राप्तो वा स्यात् मतिश्रुतावधिमनः पर्यायज्ञानैर्व्यस्तैः समस्तैर्वा समन्वितः स चैवंभूतः प्राग्व्यावर्णितगुणकलापोपेतो भिक्षु परिसमन्तात् ज्ञातं कर्म स्वरूपतो विपाकतस्तदुपादानतश्च येन स परिज्ञातकर्मा, तथा परिज्ञातः सङ्गः सम्बन्धः सबाह्याभ्यन्तरो येन स तथा, परिज्ञातो निसारतया गृहवासो येन स तथा, उपशान्त इन्द्रियनोइन्द्रियोपशमात्, तथा समितः पञ्चभिः समितिभिः, तथा सहहितेन वर्तत इति सहितो ज्ञानादिभिर्वा सहितः समन्वितः, 'सदा' सर्वकालं 'यतः ' संयतः प्राग्व्यावर्णित नियमकलापोपेतः, स एवंगुणकलापान्वित एतद्वचनीयः, तद्यथा श्राम्यतीति श्रमणः सममना वा, तथा मा प्राणिनो जहि-व्यापादयेत्येवं प्रवृत्तिः ।
1
उपदेशो यस्य स माहनः स ब्रह्मचारी वा ब्राह्मणः, क्षान्तः स क्षमोपेतो, दान्त इन्द्रियनोइन्द्रियदमनेन, तथा तिसृभिर्गुप्तिभिर्गुप्तः, तथा मुक्त इव मुक्तः, तथा विशिष्टतपश्चरणोपेतो महर्षिः,, तथा मनुते जगतस्त्रिकालवस्थामिति मुनिः, तथा कृतमस्यास्तीति कृती पुण्यवान् परमार्थपण्डितो वा, तथा विद्वान् सद्विद्योपेतः, तथा भिक्षुर्निरवद्याहारतया भिक्षणशीलः, तथाऽन्तप्रान्ताहारत्वेन रूक्षः, तथा संसारतीरभूतो मोक्षस्तदर्थी, तथा चर्यत इति चरणं मूलगुणाः क्रियत इति करणम्उत्तरगुणास्तेषां पारं तीरं पर्यन्तगमनं तद्वेत्तीति चरणकरणपारविदिति । इतिशब्दः परिसमाप्तौ । ब्रवीमीति तीर्थकरवचनादार्यः सुधर्मस्वामी जम्बूस्वामिनमुद्दिश्य एवं भणति यथाऽहं न स्वमनीषिकया ब्रवीमीति । साम्प्रतं समस्ताध्ययनोपात्तदृष्टान्तदार्थन्तिकयोस्तात्पर्यार्थं गाथाभिर्नियुक्तिकृद्दर्शयितुमाह
३२९
नि. [१५८ ] उवमा य पुंडरीए तस्सेव य उवचएण निजुत्ती ।
अधिगारो पुण भणिओ जिणोवदेसेण सिद्धित्ति ॥
वृ. इह 'उपमा' दृष्टान्तः 'पौण्डरीकेण' श्वेतशतपत्रेण कृतः, तस्येहाभ्यर्हितत्वात्, तस्यैव चोपचयेन सर्वावयवनिष्पत्तिर्यावद्विशिष्टो पायेनोद्धरणं, दार्शन्तिकाधिकारस्तु पुनरत्र भणितःअभिहितश्चक्रवत्यदिभव्यस्य जिनोपदेशेन सिद्धिरिति, तस्यैव पूज्यमानत्वादिति । सुरमणुयतिरियनिरओवंगे मणुया पहू चरित्तम्मि ।
नि. [१५९]
अविय महाजनेयत्ति चक्कवट्टिमि अधिगारो |
बृ. पूज्यत्वमेव दर्शयितुमाह- 'सुरमणुय' इत्यादि, सुरादिषु चतुर्गतिकेषु जन्तुषु मध्ये मनुजाश्चरित्रस्य-सर्वसंवररूपस्य प्रभवः शक्ता वर्तन्ते, न शेषाः सुरादयः, तेष्वपि मनुजेषु महाजननेतारश्चक्रवर्त्यादयो वर्तन्ते, तेषु प्रबोधितेषु प्रधानानुगामित्वात् इतर जनः सुप्रतिबोध एव भवतीत्यतोऽत्र चक्रवर्त्यादिना पौण्डरीककल्पेनाधिकार इति । पुनरप्यन्यथा मनुजप्राधान्यं दर्शयितुमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org