SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २८६ सूत्रकृताङ्ग सूत्रम् १/१६/-/६३०/ नि. [१४१] यनुगमः, तदनन्तरंसूत्रस्पर्शिकनियुक्तनुगमस्यावसरः, सच सूत्रे सतिभवति, सूत्रंच सूत्रानुगमे, असावप्यवसरप्राप्त एवातोऽस्खलितादिगुणोपेतं सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम् म. (६३२/१) अहाह भगवं-एवं से दंते दविए वोसट्टकाएत्ति वञ्चे माहणेत्ति वा १ समणेत्ति वा २ भिक्खूत्ति वा ३ निग्गंथेत्तिवा ४ पडिआह-भंते! कहनुदंते दविए वोसट्टकाएत्ति वच्चे माहणेत्ति वा समणेत्ति वा भिक्खूत्ति वा निग्गंथेत्तिवा? तं नो ब्रूहि महामुनी! ।। इतिविरए सव्वपावकम्मेहिं पिज्जदोसकलह० अब्भक्खाण० पेसुन्न० परिपरिवाय० अरतिरति० मायामोस० मिच्छादसणसल्लविरए समिए सहिए सया जए कुज्झे नो माणी माहणेत्ति वच्चे। वृ. 'अथे' त्ययं शब्दोऽवसानमङ्गलार्थः, आदिमङ्गलं तु बुध्येतेत्यनेनाभिहितं, अत आद्यन्तयोर्मङ्गलत्वात्सर्वोऽपि श्रुतस्कन्धोमङ्गलमित्येतदनेनावेदितंभवति।आनन्तर्येवाऽथशब्दः, पञ्चदशाध्ययनानन्तरं तदर्थसंग्राहीदं षोडशमध्ययनं प्रारभ्यते । अथानन्तरमाह-'भगवान्' उत्पन्नदिव्यज्ञानः सदेवमनुजायां पर्षदीदं वक्ष्यमाणमाह, तद्यथा-एवमसौ पञ्चदशाध्ययनोक्तार्थयुक्तः ससाधुर्दान्त इन्द्रियनोइन्द्रियदमनेन द्रव्यभूतो मुक्तिगमनयोग्यत्वात् 'द्रव्यंच भव्ये' इति वचनात् रागद्वेषकालिकापद्रव्यरहित्वाद्वाजात्यसुवर्णवत् शुद्धद्रव्यभूतस्तथा व्युत्सृष्टो निष्प्रतिकर्मशरीरतया कायः-शरीरं येन स भवति व्युत्सृष्टकायः। तदेवंभूतःसन्पूर्वोक्ताध्ययनार्थेषुवर्तमानःप्राणिनःस्थावरजङ्गमसूक्ष्मबादरपर्याप्तकापप्तिकभेदभिन्नान्मा हणत्ति प्रवृत्तिर्यस्यासौ महानोनवब्रह्मचर्यगुप्तिगुप्तो ब्रह्मचर्यधारणाद्वा ब्राह्मण इत्यनन्तरोक्तगुणकदम्बकयुक्तः साधुहिनोब्राह्मण इति वा वाच्यः, तथा श्राम्यति-तपसा खिद्यत इतिकृत्वा श्रमणो वाच्योऽथवा समं-तुल्यं मित्रादिषु मनः-अन्तःकरणं यस्य स समनाः सर्वत्र वासीचन्दनकल्प इत्यर्थः, तथा चोक्तम् - ___ “नस्थिय सि कोइ वेसो" इत्यादि । तदेवं पूर्वोक्तगुणकलितः श्रमणः सन् सममना वा इत्येवं वाच्यः साधुरिति । तथा भिक्षणशीलो भिक्षुर्मिनत्ति वाऽटप्रकारं कर्मेति भिक्षु स साधुर्दान्तादिगुणोपेतो भिक्षुरितिवाच्यः।तथा सबाह्याभ्यन्तरग्रन्थाभावान्निग्रन्थः । तदेवमनन्तरोक्तपञ्चदशाध्ययनोक्तार्थानुष्ठायी दान्तो द्रव्यभूतो व्यत्सृष्टकायश्च निर्ग्रन्थ इति वाच्य इति । एवं भगवतोक्ते सति प्रत्याह तच्छिष्यः-भगवन् !-भदन्त ! भवान्त ! इति वा योऽसौ दान्तो द्रव्यभूतो व्युत्सृष्टकायः सन्ब्राह्मणः श्रमणोभिक्षुर्निग्रन्थ इति वाच्यः तदेतत्कथं? यद्भगवतोक्तं ब्राह्मणादिशब्दवाच्यत्वं साधोरिति, एतन्नः-अस्माकं 'ब्रूहि' आवेदय ‘महामुने !' यथावस्थितत्रिकालवेदिन् । इत्येवं पृष्टो भगवान् ब्राह्मणादीनांचतुर्णामप्यभिधानानांकथञ्चिद्भेदाद्भिन्नानां यथाक्रम प्रवृत्तिनिमित्तमाह-इति' एवं पूर्वोक्ताध्ययनार्थवृत्ति सन् 'विरतो' निवृत्तः सर्वेभ्यः पापकर्मभ्यःसावद्यानुष्ठानरूपेभ्यः स तथा, तथा प्रेम-रागाभिष्वङ्गलक्षणं द्वेषः-अप्रीतिलक्षणः कलहोद्वन्द्वाधिकरणमभ्याख्यानम्-असदभियोगःपैशुन्यं (कर्णेजपत्वं) परगुणासहनतया तद्दोषोद्घट्टनमितियावत् परस्य परिवादः क्वा परदोषापादनं अतिः-चित्तोद्वेगलक्षणा संयमे तथा रतिविषयाभिष्वङ्गोमाया-परवञ्चना तया कुटिलमतम॒षावादः-असदर्थाभिधानंगामश्चंब्रुवतो भवति, मिथ्यादर्शनम्-अतत्त्वे तत्त्वाभिनिवेशस्तत्वे वाऽतत्त्वमिति, यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy