________________
श्रुतस्कन्धः-१, अध्ययनं.१३,
२५७
यस्मादमी दोषाः समाधिमाख्यातमसेवमानानामाचार्यपरिभाषिणां वा तस्मादमीभि शिष्यगुणैर्भाव्यमित्याहमू. (५६९) जे भासवं भिक्खु सुसाहुवादी, पडिहाणवं होइ विसारए य।
आगाढपन्ने सुविभावियप्पा, अन्नंजणं पन्नया परिहवेज्जा । वृ. भाषागुणदोषज्ञतया शोभनभाषायुक्तो भाषावान् 'भिक्षु' साधुः, तथा सुष्ठु साधुशोभनं हितंमितं प्रियं वदितुं शीलमस्येत्यसौ सुसाधुवादी, क्षीरमध्वाश्रववादीत्यर्थः तथाप्रतिभा प्रतिभानम्-औत्पत्तिक्यादिबुद्धिगुणसमन्वितत्वेनोत्पन्नप्रतिभत्वं तप्रतिभानं विद्यते यस्यार्स प्रतिभानवान्-अपरेणाक्षिप्तस्तदनन्तरमेवोत्तरदानसमर्थः यदिवा धर्मकथावसरे कोऽयं पुरुषः कंच देवताविशेषं प्रणतः कतरद्वा दर्शनमाश्रित इत्येवमासन्नप्रतिभतया यथायोगमाचष्टे ।
तथा 'विशारदः' अर्थग्रहणसमर्थोबहुप्रकारार्थकथनसमर्थोवा, चशब्दाच्च श्रोत्रभिप्रायज्ञः, तथाआगाढा-अवगाढा परमार्थपर्यवसितातत्त्वनिष्ठा प्रज्ञा-बुद्धिर्यस्यासावागाढप्रज्ञः, तथा सुष्टु विविधंभावितो-धर्मवासनया वासितआत्मा यस्यासौ सुविभावितात्मा, तदेवमेभिः सत्यभाषादिभिर्गुणैः शोभनः साधुर्भवति, यश्चैभिरेवनिर्जराहेतुभूतैरपिमदं कुर्यात, तद्यथा-अहमेवभाषाविधिज्ञस्तथा साधुवाद्यहमेव च नमत्तुल्यः प्रतिभानवानस्ति नापिचमत्समानोऽलौकिकः लोकोत्तरशास्त्रार्थविशारदोऽवगाढप्रज्ञः सुभावितात्मेति च, एवमात्मोत्कर्षवानन्यंजनं स्वकीयया प्रज्ञया 'परिभवेत्' अवमन्येत, तथाहि-किमनेनवाक्कुण्ठेन दुर्दुरुढेन कुण्डिकाकासिकल्पेनखसूचिना कार्यमस्ति ? क्वचित्सभायां धर्मकथावसरे वेति, एवमात्मोत्कर्षवान् भवति, तथा चोक्तम्॥१॥ “अन्यैः स्वेच्छारचितानर्थविशेषान् श्रमेण विज्ञाय ।
कुत्स्नं वाङ्मयमित इति खादत्यङ्गानि दर्पण ॥ इत्यादि ।। मू. (५७०) एवं न से होइ समाहिपत्ते, जे पनवं भिक्खु विउक्कसेज्जा ।
अहवाऽविजे लाभमयावलित्ते, अन्नंजणं खिंसति बालपन्ने। वृ.साम्प्रतमेतद्दोषाभिधित्सयाऽऽह एवम् अनन्तरोक्तया प्रक्रिययापरपरिभवपुरःसरमात्मोत्कर्षं कुर्वनशेषशास्त्रार्थविशारदोऽपि तत्त्वार्थावगाढप्रज्ञोऽप्यसौ 'समाधि' मोक्षमार्ग ज्ञानदर्शनचारित्ररूपं धर्मध्यानाख्यं वा न प्राप्तो भवति, उपर्येवासी परमार्थेदन्वतः प्लवते, क एवंभूतो भवतीतिदर्शयति-यो ह्यविदितपरमार्थतयाऽऽत्मानं सच्छेमुषीकंमन्यमानः स्वप्रज्ञया भिक्षु 'उत्कर्षेद्' गर्वं कुर्यात्, नासी समाधि प्राप्तो भवतीति प्राक्तनेन सम्बन्धः।
अन्यदपि मदस्थानमुद्घट्टयति-'अथवे तिपक्षान्तरे, यो ह्यल्पान्तरायो लब्धिमानात्मकृते परस्मै चोपकरणादिकमुत्पादयितुमलं स लघुप्रकृतितया लाभमदावलिप्तो भवति, तदवलिप्तश्च समाधिमप्राप्तोभवति, स चैवंभूतोऽन्यंजनं कर्मोदयादलब्धिमन्तं खिंसइत्ति निन्दतिपरिभवति, वक्तिच-न मत्तुल्यः सर्वसाधारणशय्यासंस्तारकाधुपकरणोत्पादको विद्यते, किमन्यैः स्वोदरभरणव्यग्रतया काकप्रायैः कृत्यमस्तीत्येवं बालप्रज्ञो' मूर्खप्रायोऽपरजनापवादं विदध्यादिति ।। मू. (५७१) पन्नामयं चैव तवोमयं च, निन्नामए गोयमयं च भिक्खू ।
आजीवगं चेव चउत्थमाहु, से पंडिए उत्तमपोग्गले से ।
2011
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org