________________
२३०
सूत्रकृताङ्ग सूत्रम् १/१२/-/५३५ चरन्नभिनिर्वृतः सन् मृत्युकालमभिकाङक्षेद् एतत्केवलिनो भाषितं, तथा परतीर्थकपरिहारं च कुर्यात् एतच्च केवलिनो मतम्, अतस्तत्परिहारार्थं तत्स्वरूपनिरूपणमनेन क्रियते । 'चत्वारी'ति संख्यापदम- परसंख्या- निवृत्त्यर्थं “समवसरणानि' परतीर्थिकाभ्युपगमसमूहरूपाणि यानि प्रावादुकाः पृथक् पृथग्वदन्ति, तानि चामूनि अन्वर्थाभिधायिभिः संज्ञापदैनिर्दिश्यन्ते, तद्यथाक्रियाम्-अस्तीत्यादिकां वदितुंशीलं येषां ते क्रियावादिनः, तथाऽक्रियां-नास्तीत्यादिकां वदितुं शीलं येषां तेऽक्रियावादिनः, तथा तृतीया वैनयिकाश्चतुर्थास्त्वज्ञानिका इति। मू. (५३६) अन्नाणिया ता कुसलावि संता, असंथुवा नो वितिगिच्छतिन्ना ।
अकोविया आहु अकोवियेहिं, अनानुवीइत्तु मुसं वयंति ॥ वृ. तदेवं क्रियाऽक्रियावैनयिकाज्ञानवादिनः सामान्येन प्रदाधुना तद्दूषणार्थं तन्मतोपन्यासं पश्चानुपूर्व्यप्यस्तीत्यतः पश्चानुपूर्व्या कर्तुमाह, यदिवैतेषामज्ञानिका एव सर्वापलापितयाऽत्यन्तम-संबद्धाअतस्तानेवादावाह-अज्ञानं विद्यते येषामज्ञानेन वाचरन्तीत्यज्ञानिकाः, आज्ञानिका वातावप्रदर्श्यन्ते, तेचाज्ञानिकाः किल वयंकुशला इत्येवंवादिनोऽपिसन्तः ‘असंस्तुता' अज्ञानमेव श्रेय इत्येवंवादितयाअसंबद्धाः, असंस्तुतत्वादेवविचिकित्सा-चित्तविप्लुतिश्चित्तभ्रान्ति संशीतिस्तां न तीर्णा-नातिक्रान्ताः, तथाहि ते ऊचुः ।
य एतेज्ञानिनस्तेपरस्परविरुद्धवादितया नयथार्थवादिनो भवन्ति, तथाहि-एके सर्वगतमात्मानं वदन्ति तथाऽन्ये असर्वगतंअपरे अंगुष्ठपर्वमानं केचनश्यामाकतन्दुलमात्रमन्ये मूर्तममूर्त हृदयमध्यवर्तिनं ललाटव्यवस्थितमित्याद्यात्मपदार्थ एव सर्वपदार्थपुरःसरे तेषां नैकवाक्यता, न चातिशयज्ञानी कश्चिदस्तियद्वाक्यं प्रमाणीक्रियेत, नचासौ विद्यमानोऽप्युपलक्ष्यतेऽर्वाग्दर्शिना, 'नासर्वज्ञः सर्वं जानातीति वचनात, तथा चोक्तम् - ॥१॥ “सर्वज्ञोऽसाविति ह्येतत्तत्कालेऽपि बुभुत्सुभिः ।
तज्ज्ञानज्ञेयविज्ञानशून्यैर्विज्ञायते कथम्? ॥ नचतस्य सम्यक्तदुपायपरिज्ञानाभावात्संभवः, संभवाभावश्चेतरेतराश्रयत्वात्, तथाहिन विशिष्टपरिज्ञानमृते तदवाप्त्युपायपरिज्ञानमुपायमन्तरेण च नोपेयस्य विशिष्टपरिज्ञानस्यावाप्तिरिति, नचज्ञानंज्ञेयस्यस्वरूपं परिच्छेत्तुमलं, तथाहि-यत्किमप्युपलभ्यतेतस्याग्मिध्यपरभागैर्भाव्यं, तत्राग्भिागस्यैवोपलब्धिर्नेतरयोः, तेनैव व्यवहितत्वात्, अर्वाग्भागस्यापि भागत्रयकल्पनात्तत्सर्वारातीयभागपरिकल्पनयापरमाणुपर्यवसानता, परमाणोश्च स्वभावविप्रकृष्टत्वादवग्दिर्शनिनां नोपलब्धिरिति, तदेवं सर्वज्ञस्याभावादसर्वज्ञस्य च यथावस्थितवस्तुस्वरूपापरिच्छेदात्सर्ववादिनां च परस्परविरोधेन पदार्ध स्वरूपाभ्युपगमात् यथोत्तरपरिज्ञानिनां प्रमादवतां बहुतरदोषसंभवादज्ञानमेव श्रेयः।
तथाहि-यद्यज्ञानवान् कथञ्चित्पादेनशिरसिहन्यात्तथापि चित्तशुद्धेर्न तआथाविधदोषानुषङ्गी स्यादित्येवमज्ञानिन एवंवादिनः सन्तोऽसंबद्धाः, न चैवंविधां चित्तविप्लुतिं वितीर्णा इति। तत्रैवंवादिनस्ते अज्ञानिका अकोविदा' अनिपुणाः सम्यक्परिज्ञानविकला इत्यवगन्तव्याः, तथाहि-यत्तैरभिहितं 'ज्ञानवादिनः परस्पर विरुद्धार्थवादितया न यथार्थवादिन' इति, तद्भवत्वसर्वज्ञ-प्रणीतागमाभ्युपगमवादिनामयथार्थवादित्वं, पत्तेरिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
www