________________
२१०
सूत्रकृताङ्ग सूत्रम् १/१०/-/४९२
वृतपश्चरणोपायमधिकृत्याह-यथा 'क्षुद्रमृगा' क्षुद्राटव्यपशवोहरिणजात्याद्याः 'चरन्तः' अटव्यामटन्तः सर्वतो बिभ्यतः परिशङ्कमानाः सिंहं व्याघ्र वा आत्मोपद्रवकारिणं दूरेण परिहत्य 'चरन्ति' विहरन्ति । एवं 'मेघावी' मर्यादावान्, तुर्विशेषणे, सुतरां धर्मं 'समीक्ष्य' पर्यालोच्य 'पाप' कर्मअसदनु-ष्ठानंदूरेण मनोवाक्कायकर्मभिः परिहत्य परि-समन्ताव्रजेत्, संयमानुष्ठायी तपश्चारी च भवेदिति, दूरेण वा पापं-पापहेतुत्वात्सावद्यानुष्ठानं सिंहमिव मृगः स्वहितमिच्छन् परिवर्जयेत्-परित्यजेदिति अपिचमू. (४९३) संबुज्झमाणे उ नरे मतीमं, पावाउ अप्पाण निवट्टएजा।
हिंसप्पसूयाइंदुहाई मत्ता, वेरानुबंधीणि महब्भयाणि ॥ वृ.मननंमति साशोभना यस्यास्त्यसौ मतिमान्, प्रशंसायांमतुप, तदेवंशोभनमतियुक्तो मुमुक्षुर्नरः सम्यक्श्रुतचारित्राख्यं धर्मं भावसमाधिं वा 'बुध्यमानस्तु विहितानुष्ठाने प्रवृत्तिं कुर्वाणस्तु पूर्वं तावन्निषिद्धाचरणानिवर्तेत अतस्तत् दर्शयति-'पापात्' हिंसानृतादिरूपात्कर्मण आत्मानं निवर्तयेत्, निदानोच्छेदेन हि निदानिन उच्छेदो भवतीत्यतोऽशेषकर्मक्षयमिच्छन्नादावेव आश्रवद्वाराणि निरुन्ध्यादित्यभिप्रायः।
किंचान्यत्-हिंसा-प्राणिव्यपरोपणंतयाततोवा प्रसूतानि-जातानि यान्यशुभानि कर्माणि तान्यत्यन्तं नरकादिषु यातनास्थानेषु दुःखानि-दुःखोत्पादकानि वर्तन्ते, तथा वैरमनुबन्धन्ति तच्छीलानि च वैरानुबन्धीनि जन्मशतसहस्रदुर्मोचानि, अत एव महद्भयं येभ्यः सकाशात्तानि महाभयानीति, एवं च मत्वा मतिमानात्मानं पापानिवर्तयेदिति, पाठान्तरं वा 'निव्वाणभूए व परिव्वएज्जा' अस्यायमर्थ-यथा हि निर्वृतो निर्व्यापारत्वात्कस्यचिदुपघातेन वर्तते एवं साधुरपि सावधानुष्ठानरहितः परि-समन्ताद् व्रजेदिति। मू. (४९४) मुसंनबूया मुनि अत्तगामी, निव्वाणमेयं कसिणं समाहिं ।
सयंन कुजा न य कारवेजा, करंतमन्नपि य नाणुजाणे ॥ वृतथाआप्तो-मोक्षमार्गस्तद्गामी-तदमनशील आत्महितगामी वाआप्तोवाप्रक्षीणदोषः सर्वज्ञस्तदुपदिष्टमार्गगामी मुनि' साधुः ‘मृषावादम्' अनृतमयर्थाथ नब्रूयात् सत्यमपिप्राण्युपघातकमिति, ‘एतदेव' मृषावादवर्जनं कृत्स्नं संपूर्ण भावसमाधिं निर्वाणं चाहुः।
सांसारिका हिसमाधयःस्नानभोजनादिजनिताःशब्दादिविषयसंपादितावाअनैकान्तिकानात्यन्तिकत्वेन दुःखप्रतीकाररूपत्वेन वाअसंपूर्णावर्तन्ते।तदेवंमृषावादमन्येषांवाव्रतानामतिचारं स्वयमात्मना न कुर्यान्नाप्यपरेण कारयेत्तथा कुर्वन्तमप्यपरं मनोवाक्कायकर्मभिर्नानुमन्येत इति। मू. (४९५) सुद्धे सिया जाए न दूसएज्जा, अमुच्छिए न य अन्झोववन्ने ।
धितिमं विमुक्केन य पूयणट्ठी, न सिलोयगामी य परिव्वएज्जा ।। वृ.उत्तरगुणानधिकृत्याह-उद्गमोत्पादनैषणाभिः 'शुद्ध' निर्दोषे 'स्यात्' कदाचित् ‘जाते' प्राप्ते पिण्डे सति साधू रागद्वेषाभ्यां न दूषयेत्, उक्तंच॥१॥ "बायालीसेसणसंकडंमि गहणमि जीव ! नहु छलिओ।
इण्हि जह न छलिज्जसि भुजंतो रागदोसेहिं ।। तत्रापि रागस्य प्राधान्यख्यापनायाह-नमूर्छितोऽमूर्छितः-सकृदपिशोभनाहारलाभे सति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org