________________
श्रुतस्कन्धः - १, अध्ययनं - ८,
धर्मसारमुपगच्छति, धर्मस्य वा सारंचारित्रं तठप्रतिपद्यते, तत्प्रतिपत्ती च पूर्वोपात्तकर्मक्षयार्थ पण्डितवीर्यसम्पन्नो रागादिबन्धनविमुक्तो बालवीर्यरहित उत्तरोत्तरगुणसम्पत्तये समुपस्थितोऽनगारः प्रवर्धमानपरिणामः प्रत्याख्यातं-निराकृतं पापकं सावद्यानुष्ठानरूपं येनासौ प्रत्याख्यातपापको भवतीति किञ्चान्यत्
मू. (४२५)
जं किंचुवक्क, मं जाणे, आउक्खेमस्सं अप्पणो । तस्सेव अतरा खिप्पं, सिक्खं सिक्खेज्ज पंडिए ।
वृ. उपक्रम्यते-संवर्त्यते क्षयमुपनीयते आयुर्येन स उपक्रमस्तं यं कञ्चन जानीयात्, कस्य ? - 'आयुः क्षेमस्य' स्वायु, इति, इदमुक्तं भवति-स्वायुष्कस्य येन केनचित्प्रकारेणोपक्रमो भावी यस्मिन् वा काले तत्परिज्ञाय तस्योपक्रमस्य कालस्य वा अन्तराले क्षिप्रमेवानाकुलो जीवितानाशंसी ‘पण्डितो’विवेकी संलेखनारूपां शिक्षां भक्तपरिज्ञेङ्गितमरणादिकां वा शिक्षेत्, तत्र ग्रहणशिक्षया यथावन्मरणविधिं विज्ञायाऽऽ सेवनाशिक्षया त्वासेवेतेति । जहा कुम्मे सअंगाई, सए देहे समाहरे । एवं पावाइं मेघावी, अज्झप्पेण समाहरे ॥
मू. (४२६)
१८५
वृ. किञ्चान्यत्- 'यथे' त्युदाहरणप्रदर्शनार्थ यथा 'कूर्म' कच्छपः स्वान्यङ्गानि - शिरोधरादीनि स्वके देहे 'समाहरेद्' गोपयेद्-अव्यापाराणि कुर्याद् 'एवम्' अनयैव प्रक्रियया 'मेघावी' मर्यादावान् सदसद्विवेकी वा 'पापानि' पापरूपाण्यनुष्ठानानि 'अध्यात्मना' सम्यग्धर्मध्यानादिभावनया 'समाहरेत्' उपसंहरेत्, मरणकाले चोपस्थिते सम्यक् संलेखनया संलिखितकायः पण्डितमरणेनात्मानं समाहरेदिति । संहरणप्रकारमाह
पू. (४२७)
साहरे हत्थपाए य, मणं पंचेंदियाणि य । पावकं च परीणामं, भासादोसं च तारिसं ॥
वृ. पादपोपगमने इङ्गिनीमरणे भक्तपरिज्ञायां शेषकाले वा कूर्मवद्धस्तौ पादौ च 'संहरेद्' व्यापारान्निवर्त्तयेत्, तथा 'मनः' अन्तःकरणं तच्चाकुशलव्यापारेभ्यो निवर्तयेत्, तथा -
शब्दादिविषयेभ्योऽनुकूलप्रतिकूलेभ्योऽरक्तद्विष्टतया श्रोत्रेन्द्रियादीनि पञ्चापीन्द्रियाणि चशब्दः समुच्चये तथा पापकं परिणाममैहिकामुष्मिकाशंसारूप संहरेदित्येवं भाषादोषं च 'ताद्दर्श' पापरूपं संहरेत्, मनोवाक्कायगुप्तः सन् दुर्लभं सत्संयममवाप्य पण्डितमरणं वाऽशेषकर्मक्षयार्थं सम्यगनुपालयेदिति ।। पू. (४२८)
अणु मानं च मायं च तं पडिन्नाय पंडिए ।
सातागारवणिहुए, उवसंते निहे चरे ॥
वृ. तं च संयमे पराक्रममाणं कश्चित् पूजासत्कारादिना निमन्त्रयेत्, तत्रात्मोत्कर्षो न कार्य इति दर्शयितुमाह- चक्रवत्यादिना सत्कारादिना पूज्यमानेन 'अणुरपि' स्तोकोऽपि 'मानः ' अहङ्कारो न विधेयः, किमुत महान् ?, यदिवोत्तममरणोपस्थितेनोग्रतपोनिष्टप्तदेहेन वा अहोऽहमित्येवंरूपः स्तोकोऽपि गर्यो न विधेयः, तथा पण्डुरार्ययेव स्तोकाऽपि माया न विधेया
किमुत महती ?, इत्येवं क्रोधलोभावपि न विधेयाविति, एवं द्विविधयापि परिज्ञया कषायांस्तद्विपाकांश्च परिज्ञाय तेभ्यो निवृत्तिं कुर्यादिति पाठान्तरं वा 'अइमानं च मायं च तं परिन्नाय पंडिए' अतीव मानोऽतिमानः सुभूमादीनामिव तं दुःखावहमित्येवं ज्ञात्वा परिहरेत्,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International