________________
१७०
सूत्रकृताङ्ग सूत्रम् १/७/-३९० वृ. साम्प्रतं हरितच्छेदकर्मविपाकमाह-इह वनस्पतिकायोपमईकाः बहुषु जन्मषु गर्भादिकास्ववस्थासुकललार्बुदमांसपेशीरूपासुम्रियन्ते, तथा 'ब्रुवन्तोऽब्रुवन्तश्च व्यक्तवाचोऽव्यक्तवाचश्च तथा परे नराः पञ्चशिखाः कुमाराः सन्तो भ्रियन्ते।
तथा युवानो मध्यमवयसः स्थविराश्च क्वचित्पाठो मज्झिमपोरुसाय'त्तितत्र मध्यमा' मध्यमवयसः ‘पोरुसाय'त्ति पुरुषाणांचरमावस्थांप्राप्ताअत्यन्तवृद्धा एवेतियावत्, तदेवंसर्वास्वप्यवस्थासुबीजादीनामुपकाः स्वायुषः क्षयेप्रलीनाः सन्तोदेहंत्यजन्तीति, एवमपर-स्थावरजङ्गमोपमईकारिणामप्यनियतायुष्कत्वमायोजनीयम् ।। किञ्चान्यत्मू. (३९१) संबुज्झहा जंतवो ! माणुसत्तं, दटुं भयं बालिसेणं अलंभो।
एगंतदुक्खे जरिए व लोए, सकम्मुणा विप्परियासुवेइ ।। वृ.हे ! 'जन्तवः' प्राणिनः! सम्बुध्यध्वं यूयं, न हि कुशीलपाषण्डिकलोकस्त्राणाय भवति, धर्म च सुदुर्लभत्वेन सम्बुध्यध्वं, तथा चोक्तम्॥१॥ “माणुस्सखेत्तजाई कुशरूवारोग्गमाउयं बुद्धी ।
सवणोग्गहसद्धा संजमो य लोगंमि दुलहाई॥ तदेवमकृतधर्माणां मनुष्यत्वमतिदुर्लभमित्यवगम्य तथा जातिजरामरणरोगशोकादीनि नरकतिर्यक्षुचतीव्रदुःखतयाभयं दृष्ट्वातथा बालिशेन' अज्ञेन सदसद्विवेकस्यालम्भइत्येतच्चावगम्य तथा निश्चयनयमवगम्य एकान्तदुःखोऽयं ज्वरित इव 'लोकः' संसारिपाणिगणः, तथा चोक्तम्॥१॥ "जम्मंदुक्खं जरा दुक्खं, रोगा यमरणाणि य ।
अहो दुक्खो हु संसारो, जत्थ कीसंति पाणिणो ।। ॥१॥
"तण्हाइयस्स पाणं कूरो छुहियस्स भुजए तित्ती ।
दुक्खसयसंपउत्तं जरियमिव जगं कलयलेइ ।। इति, अत्रचैवम्भूते लोके अनार्यकर्मकारीस्वकर्मणा विपर्यासमुपैति' सुखार्थीप्राण्युपमई कुर्वन् दुःखं प्राप्नोति, यदिवा मोक्षार्थी संसारं पर्यटतीति॥ मू. (३९२) इहेग मूढा पवयंति मोक्खं, आहारसंपज्जणवजणेणं।
एगे य सीओदगसेवणेणं, दुएण एगे पवयंति मोक्खं ॥ वृ. उक्तः कुशीलविपाकोऽधुना तद्दर्शनान्यभिधीयन्ते-'इहे ति मनुष्यलोके मोक्षगमनाधिकारे वा, एके केचन 'मूढा' अज्ञानाऽऽच्छादितमतयः परैश्च मोहिताः प्रकर्षेण वदन्ति प्रवदन्ति-प्रतिपादयन्ति, किं तत् ? -'मोक्षं' मोक्षावाप्तिं, केनेति दर्शयति
__ आहियत् इत्याहार-ओदनादिस्तस्य सम्पद्-रसपुष्टिस्तांजनयतीत्याहारसम्पज्जननं-लवणं, तेन ह्याहारस्य रसपुष्टि क्रियते, तस्य वर्जनं तेनाऽऽहारसम्पज्जननवर्जनेन-लवणवर्जनेन मोक्षं वदन्ति, पाठान्तरंवा 'आहारसपंचयवज्जणेण' आहारेण सह लवणपञ्चकमाहारसपञ्चकं, लवणपञ्चकंचेदं, तद्यथा-सैंधवं सौवलंबिडंरौमं सामुद्रं चेति, लवणेन हि सर्वरसानामभिव्यक्तिर्भवति, तथा चोक्तम् - ॥१॥ “लवणविहूणा य रसा चक्खुविहूणा य इंदियग्गामा। ___ धम्मो दयाय रहिओ सोक्खं संतोसरहियं नो॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org