SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं - ५, उद्देशक :- २ १५१ वृ. 'सदा' सर्वकालं 'कृत्स्नं' सम्पूर्णं पुनरपरं 'धर्मस्थानं' उष्णस्थानं ध्दैर्निधत्तनिकाचितावस्थैः कर्मभिः ‘उपनीतं' ढौकितमतीव दुःखरूपो धर्म-स्वभावो यस्मिंस्तदतिदुःखधर्मं तदेवम्भूते यातनास्थाने तमन्त्राणं नारकं हस्तेषु पादेषु च बद्धवा तत्र प्रक्षिपन्ति, तथा तदवस्थमेव शत्रुमिव दण्डैः 'समारभन्ते' ताडयन्ति इति ॥ मू. (३४०) भंजंति बालस्स वहेण पुट्ठी, सीसंपि भिंदंति अओघणेहिं । ते भिन्नदेहा फलगंव तच्छा, तत्ताहिं आराहिं नियोजयंति ॥ वृ. किञ्च-'बालस्य' वराकस्य नारकस्य व्यथयतीति व्यथो - लकुटादिप्रहारस्तेन पृष्ठ ‘भञ्जयन्ति’ मोटयन्ति, तथा शिरोऽप्ययोमयेन घनेन 'भिन्दन्ति चूर्णयन्ति, अपिशब्दादन्यान्यप्यङ्गोपाङ्गानि दुधणधातैश्चूर्णयन्ति । 'ते' नारका 'भिन्नदेहाः' चूर्णिताङ्गोपाङ्गाः फलकमिवोभाभ्या पाश्वभ्यां क्रकचादिना 'अवतष्टाः' तनूकृताः सन्तस्तप्ताभिराराभिः प्रतुद्यमानास्तप्तन्त्रपुपानादिके कर्मणि 'विनियोज्यन्ते' व्यापार्यन्त इति किञ्च मू. (३४१) अभिजुंजिया रुद्द असाहुकम्मा, उसुचोइया हत्थिवहं वहंति । एगं दुरुहित्तु दुवे ततो वा, आरुस्स विज्झंति ककाणओ से ।। वृ. रौद्रकर्मण्यपरनारकहननादिके 'अभियुज्य' व्यापार्य यदिवा-जन्मान्तरकृतं 'रौद्रं ' सत्त्वोपघातकार्यम् 'अभियुज्य' स्मारयित्वा असाधूनि - अशोभनानि जन्मान्तरकृतानि कर्माणिअनुष्ठानानि येषां ते तथा तान् 'इषुचोदितान्' शराभिघातप्रेरितान् हस्तिवाहं वाहयन्ति नरकपालाः, यथा हस्ती वाह्यते समारुह्य एवं तमपि वाहयन्ति, यदिवा - यथा हस्ती महान्तं भारं वहत्येवं तमपि नारकं वाहयन्ति, उपलक्षणार्थत्वादस्योष्ट्रवाहं वाहयन्तीत्याद्यप्यायोज्यं, कतं वाहयन्तीति दर्शयति-तस्य नारकस्योपर्येकं द्वौ त्रीन् वा 'समारुह्य' समारोप्य ततस्तं वाहयन्ति, अतिभारारोपणेनावहन्तम् 'आरुष्य' क्रोधं कृत्वा प्रतोदादिना 'विध्यन्ति' तुदन्ति, 'से' तस्य नारकस्य 'ककाणओ'त्ति मर्माणि विध्यन्तीत्यर्थः ॥ पू. (३४२) बाला बला भूमिमनुक्क मंता, पविज्जलं कंटइलं महंतं । विवद्धतप्पेहिं विवन्नचित्ते, समीरिया कोट्टबलिं करिति ॥ वृ. अपिच-बाला इव बालाः परतन्त्राः, पिच्छिलां रुधिरादिना तथा कण्टकाकुलां भूमिमनुक्रामन्तोमन्दगतयो बलाप्रेर्यन्ते, तथा अन्यान् 'विषण्णचित्तान्' मूर्च्छितांस्तर्पकाकारान 'विविधम्' अनेकधा बद्धा ते नरकपालाः ‘समीरिताः' । पापेन कर्मणा चोदितास्तान्नारकान् 'कुट्टयित्वा' खण्डशः कृत्वा 'बलिं करिंति'त्ति नगरबलिवदितश्चेतश्च क्षिपन्तीत्यर्थ, यदिवा कोट्टबलिं कुर्वन्तीति । किञ्चमू. (३४३) वेतालिए नाम महाभितावे, एगायते पव्वयमंतलिक्खे । हम्मंति तत्था बहुकूरकम्मा, परं सहस्साण मुहुत्तगाणं ।। वृ. नामशब्दः सम्भावनायां सम्भाव्यते एतन्नरकेषु यथाऽन्तरिक्षे 'महाभितापे' महादुःखैककार्ये एकशिलाघटितो दीर्घ 'वेयालिए' त्ति वैक्रियः परमाधार्मिकनिष्पादितः पर्वतः तत्र तमोरूपत्वान्नर-काणामतो हस्तस्पर्शिकया समारुहन्तो नारका 'हन्यन्ते' पीड्यन्ते, बहूनि क्रूराणि जन्मान्तरोपात्तानि कर्माणि येषां ते तथा, सहसंख्यानां मुहूर्तानां परं प्रकृष्टं कालं, सहशब्द Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy