SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्ध :- १, अध्ययनं - १, उपोद्घात : 11911 (मूलम् + श्री भद्रबाहुस्वामी कृत् निर्युक्तिः एवं श्री शिलाङ्काचार्य रचित वृत्तिः युक्तं ) 5 प्रथमम् श्रुतस्कन्धम् फ अध्ययनं -१ शस्त्र परिज्ञा ॐ नमः सर्वज्ञाय ॥ जयति समस्तवस्तुपर्यायविचारापास्ततीर्थिकं, विहितैकैकतीर्थनयवादसमूहवशाप्रतिष्ठितम् बहुविधभङ्गिसिद्धिसद्धान्तविधूनिमलमलीमसं, तीर्थमनादिनिधनगतमनुपममादिनतं जिनेश्वरैः आचारशास्त्रं सुविनिश्चितं यथा, जगाद वीरो जगते हिताय यः तथैव किञ्चिद्गदतः स एव मे, पुनातु धीमान् विनयार्पिता गिरः शस्त्रपरिज्ञाविवरणमतिबहुगहनं च गन्धहस्तिकृतम् 11311 तस्मात् सुखबोधार्थं गृह्णाम्यहमञ्जसा सारम् इह हि रागद्वेषमोहाद्यभिभूतेन सर्वेणापि संसारिजन्तुना शारीरमानसानेकातिकटुकदुःखोपनिपातपीडितेन तदपनयनाय हेयोपादेयपदार्थपरिज्ञाने यत्नो विधेयः, स च न विशिष्टविवेकमृते, विशिष्टविवेकश्चन प्राप्ताशेषातिशयकलापाप्तोपदेशमन्तरेण, आप्तश्च रागद्वेषमोहादीनां दोषाणामात्यन्तिकप्रक्षयात्, सचार्हत एव, अतः प्रारभ्यतेऽर्हद्वचनानुयोगः, सच चतुर्घा, तद्यथा - धर्मकथानुयोगो गणितानुयोगो द्रव्यानुयोगश्चरणकरणानुयोगश्चेति, तत्र धर्मकथानुयोग उत्तराध्ययनादिकः, गणितानुयोगः सूर्यप्रज्ञप्तयादिकः, द्रव्यनुयोगः पूर्व्वाणि सम्मत्यादिकश्च, चरणकरणानुयोगश्चाचारादिकः, स च प्रधानतमः, शेषाणां तदर्थत्वात्, तदुक्तम्चरणपडिवत्तिहेतुं जेणियरे तिण्णि अनुओग "त्ति, तथा“चरणपडिवित्तिहेउं घम्मकहाकालदिक्खमादीया ॥२॥ 11911 नमो नमो निम्मल दंसणस्त पंचम गणधर श्री सुधर्मास्वामिने नमः १ आचाराङ्ग सूत्रम् स टी कं प्रथमं अङ्ग सूत्रम् Jain Education International दविए दंसणसोही दंसणसद्धस्स चरणं तु" गणधरैरप्यत एव तस्यैवादौ प्रणयनमकारि, अतस्तत्प्रतिपादकस्याचाराङ्गस्यानुयोगः समारभ्यते, स च परमपदप्राप्तिहेतुत्वात्सविघ्नः, तदुक्तम् 119 11 " श्रेयांसि बहुविघ्नानि भवन्ति महतामपि अश्रेयसि प्रवृत्तानां कापि यान्ति विनायकाः" For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy