________________
३१०
आचाराङ्गसूत्रम् 9/-/९/१/२७३
वृ. 'परुषाणि' कर्कशानि वाग्दुष्टानि तानि चापरैर्दुःखेन तितिक्ष्यन्त इति दुस्तितिक्षाणि तान्यतिगत्य-अविगणय्य 'मुनिः' भगवान् विदितजगत्स्वभावः पराक्रममाणः सम्यक्तितिक्षते, तथाआख्यातानिचतानिनृत्यगीतानिचआख्यातनृत्यगीतानितानिउद्दिश्य नकौतुकंविदधाति, नापि दण्डयुद्धमुष्टियुद्धान्याकर्ण्य विस्मयोत्फुल्ललोचन उधूषितरोमकूपो भवति,। मू. (२७४) गढिए मिहुकहासु समयंमि नायसुए विसोगे अदक्खु ।
एयाइं से । उरालाइंगच्छइ नायपुत्ते असरणयाए॥ वृ. तथा 'ग्रथितः' अवबद्धो 'मिथः' अन्योऽन्यं कथासु' स्वैरकथासु समये वा कश्चिदवबद्धस्तंस्त्रीद्वयंवा परस्य कथायांगृद्धमपेक्ष्यतस्मिन्नवसरे 'ज्ञातपुत्रो' भगवान् विशोको विगतहर्षश्च तान्मिथःकथाऽवबद्धान् मध्यस्थोऽद्राक्षीत्, एतान्यन्यानि चानुकूलप्रतिकूलानि परीषहोपसर्गरूपाण्युरालानि दुष्प्रधृष्याणि दुःखान्यस्मरन् ‘गच्छति संयमानुष्ठाने पराक्रमते, ज्ञाताः-क्षत्रियास्तेषांपुत्रः-अपत्यंज्ञातपुत्रः-वीरवर्द्धमानस्वामीसभगवान्नैतदुःखस्मरणाय गच्छतिपराक्रमत इति सम्बन्धः, यदिवा शरणं गृहं नात्र शरणमस्तीत्यशरणंः-संयमस्तस्मै अशरणाय पराक्रमत इति, तथाहि-किमत्र चित्रं यद्भगवानपरिमितबलपराक्रमः प्रतिज्ञामन्तरमारूढः पराक्रमतेइति?, स भगवानप्रव्रजितोऽपिप्रासुकाहारानुवत्यासीत्, श्रूयतेच किल पञ्चात्वमुपगते मातापितरि समाप्तप्रतिज्ञोऽभूत, ततःप्रविव्रजिषुःज्ञातिभिरभिहितो, यथा-भगवन् ! मा कृथाः क्षते क्षारावसेचनमित्येवमभिहितेन भगवताऽवधिना व्यज्ञायि, यथा-मय्यस्मिन्नवसरे प्रव्रजति सतिबहवो नष्टचित्ता विगतासवश्वस्युरित्यवधार्यतानुवाच-कियन्तंकालंपुनरत्रमया स्थातव्यमिति?, ते ऊचुः-संवत्सरद्वयेनास्माकं शोकापगमो भावीति, भट्टारकोऽप्योमित्युवाच, किं त्वाहारादिकंमया स्वेच्छया कार्य, नेच्छाविघाताय भवद्भिरुपस्थातव्यं, तैरपियथाकथञ्चिदयं! तिष्ठत्वितिमत्वा तैः सर्वैस्तथैव प्रतिपेदे ॥ मू. (२७५) अवि साहिए दुवे वासे सीओदं अभुच्चा निक्खन्ते।
एगत्तगए पिहियच्चे से अहिन्नायदंसणे सन्ते। वृ.ततो भगवांस्तद्वचनमनुचात्मीयंचनिष्क्रमणावसरमवगम्य संसारासारतां विज्ञाय तीर्थप्रवर्तनायोद्यत इति दर्शयितुमाह-अपि साधिके द्वे वर्षे शीतोदकमभुक्त्वाअनभ्यवहृत्यापीत्वेत्यर्थः,अपराअपिपादधावनादिकाः क्रियाःप्रासुकेनैवप्रकृत्यततोनिष्कान्तो, यथा च प्राणातिपातं परिहतवान् एवं शेषव्रतान्यपि पालितवानिति, तथा “एकत्व मिति तत एकत्वभावनाभावितान्तःकरणः पिहिता-स्थगिताऽर्चा-क्रोधज्वालायेनसतथा, यदिवापिहितार्चागुप्ततनुः स भगवान् छद्मस्थकालेऽभिज्ञातदर्शनः-सम्यकत्वभावनया भावितःशान्तः इन्द्रियनोइन्द्रियैः ।सएवंभूतोभगवान्गृहवासेऽपिसावद्यारम्मत्यागी,किंपुनःप्रव्रज्यायामितिदर्शयितुमाहमू. (२७६) पुढविंच आउकायं च तेउकायं च वाउकायंच।
पणगाइंबीयहरियाइंतसकायं च सव्वसो नचा । मू. (२७७) एयाइं सन्ति पडिलेहे, चित्तमन्ताइसे अभिन्नाय।
परिवज्जिय विहरित्या इय संखाए से महावीरे ॥ वृ.श्लोकद्वयस्याप्यसमर्थ:-एतानिपृथ्व्यादीनिचित्तमन्त्यभिज्ञायतदारम्भपरिवर्जविहरति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org