________________
आचाराङ्ग सूत्रम् १/-/३/२/१२१
'से अन्नवहाए' इत्यादि, स लोभपूरणप्रवृत्तोऽन्येषां प्राणिनां वधाय भवति, तथाऽन्येषां शारीरमानसपरितापनाय, तथाऽन्येषां द्विपदचतुष्पदादीनां परिग्रहाय, जनपदे भवा जानपदाः कालप्रष्टादयो राजादयो वा तद्वधाय, मगधादिजनपदा वा तद्वधाय, तथा जनपदानां लोकानां परिवादाय-दस्युरयं पिशुनो वेत्येवं मर्मोदघट्टनाय, तथा जनपदानां मगधादीनां परिग्रहाय, प्रभवतीति सर्वत्राध्याहारः ॥ किं य एते लोभप्रवृत्ता वधादिकाः क्रियाः कुर्व्वन्ति ते तथाभूता एवासते उतान्यथाऽपीति दर्शयति
१७०
मू. (१२२) आसोवित्ता एतं अटुं इच्चेवेगे समुट्ठिया, तम्हा तं बिइयं नो सेवे, निस्सारं पासिय नाणी, उववायं चवणं नच्चा, अनन्नं चर माहणे, से न छणेन छणावए छणंतं नाणुजाणइ, निव्विंद नंदि, अरए पयासु, अणोमदंसी, निसण्णे पावेहिं कम्मेहिं ।
वृ. एवम् अनन्तरोक्तमर्थमन्यवधपरिग्रहपरितापनादिकमासेव्यच 'इत्येवे'ति लोभेच्छाप्रतिपूरणायैव 'एके' भरतराजादयः 'समुत्थिताः' सम्यग्योगत्रिकेणोत्थिताः संयमानुष्ठानेनोद्यतास्तेनैव भवेन सिद्धिमासादयन्ति । संयमसमुत्थानेन च समुत्थाय कामभोगान् हिंसादीनि चानवद्वाराणि हित्वा किं विधेयमित्याह- 'तम्हा' यस्माद्वान्तभोगतया कृतप्रतिज्ञस्तस्माद्मोगलिप्सुतया तं द्वितीयं मृषावादमसंयमं वा नासेवेत । विषयार्थमसंयमः सेव्यते, ते च विषया निःसारा इति दर्शयति- 'निस्सारं' इत्यादि, सारो हि विषयगणस्य तत्प्राप्तौ तृप्तिस्तदभावान्निःसारस्तं दृष्टवा 'ज्ञानी' तत्त्वेदी न विषयाभिलाषं विदध्यात् । न केवलं मनुष्याणां देवानामपि विषयसुखास्पदमनित्यं जीवितमिति च दर्शयति- 'उववायं चवणं नच्चा' उपपातं जन्म च्यवनंपातस्तच्च ज्ञात्वा न विषयसङ्गोन्मुखो भवेदिति, यतो निःसारो विषयग्रामः समस्तः संसारो वा सरवाणिच स्थानन्यशाश्वतानि, ततः किं कर्त्तव्यमित्याह - 'अनन्न' मित्यादि, मोक्षमार्गादन्योऽनन्यःज्ञानादिकस्तं चर 'माहण' इति मुनिः ।
किं च- 'से न छणे' इत्यादि, स मुनिरनन्यसेवी प्राणिनो न क्षणुयात् न हन्यात् नाप्यपरं घातयेत् घातयन्तं न समनुजानीयात् । चतुर्थव्रतसिद्धये त्विदमुपदिश्यते - निव्विंद' इत्यादि, निर्विन्दस्व जुगुप्सस्व विषयजनितां 'नंदी' प्रमोदं किम्भूतः सन् ? 'प्रजासु' स्त्रीषु अरक्तोरागरहितो, भावयेच्च यथैते विषयाः किम्पाकफलोपमास्त्रीपुषीफलनिबन्धनकटवः, अतस्तदर्थे परिग्रहाग्रहयोगपराङ्मुखो भवेदिति, उत्तमधर्म्मपालनार्थमाह- 'अणोम' इत्यादि, अवमं- हीनं मिथ्यादर्शनाविरत्यादि तद्विपर्यस्तमनवमं तष्टुंशीलमस्येत्यनवमदर्शी सम्यद्गर्शनज्ञानचारित्रवान्, एवम्भूतः सन् प्रजानुगां नन्दिं निर्विन्दस्वेति सण्टङ्कः । यश्चानवमसंदर्शी स किम्भूतो भवतीत्याह‘निसन्न' इत्यादि पापोपादानेभ्यः कर्म्मभ्यो निषण्णो-निर्विण्णः पापकर्म्मभ्यः पापकर्म्मसु वा कर्त्तव्येषु निवृत्त इतियावत् ।। किं च
मू. (१२३) कोहाइमानं हणिया य वीरे, लोभस्स पासे निरयं महंतं । तम्हा य वीरे विरए वहाओ, छिंदिज्ज सोयं लहुभूयगामी ॥
वृ. क्रोध आदिर्येषां ते क्रोधादयः मीयते परिच्छिद्यतेऽनेनेति मानं स्वलक्षणं अनन्तानुबन्ध्यादिविशेषः, क्रोधादीनां मानं क्रोधादिमानं, क्रोधादिर्वायो मानो गर्वः क्रोधकारणस्तं हन्यात्, कोऽसौ ? - वीरः, द्वेषापनोदमुक्त्वा रागापनोदार्थमाह – 'लोहस्स' इत्यादि,
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org