________________
संस्कृत विभाग-२
नाथो जिनानां महनीयमूर्तिः, विधि प्रदद्यात् भुवि भव्यकीर्तिः ॥९॥ सम्यग् गुणोत्कर्ष-सुसिद्धदेवः, श्री शीतलोऽर्हन् कृतसाधुसेवः । नन्दासुतो भक्त-मनोदकल्पः, जीयाजिनेन्द्रः किल निर्विकल्पः ॥१०॥ श्रीविष्णुभक्तं समशक्तिकान्तं, श्रेयांसनाथं प्रभुताविभान्तम् । श्रेयः-सनाथं प्रणमामि भक्त्या, परार्थनाथं सकलस्वशक्त्या ॥११॥ आप्तप्रधानं प्रभुवासुपूज्यं, सन्त्यक्तवन्तं विपुलं स्वराज्यम् । जयाप्रसूतं परमद्धिंसन्तं, वन्दे चिदानन्द-लसत्वसन्तम् ॥१२॥ श्यामोद्भवं शर्मभवं भवान्तं, संसारि-जीवाऽसुखतादबान्तम् । वन्दे विशुद्ध विमलैकनाथं श्री केवलाज-ज्ञातपदार्थ-साथम् ॥१३॥ महायशस्कं सुयशाः सुजातं, मिथ्यात्वनिद्रा-हरणे प्रभातम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org