________________
१२०
स्तुति तरंगिणी त्रिभुवनस्य सदा तिलका जिनाः, प्रवरकेवल-भासित-भूतलाः । सकलमानवभूपति-सेविता:, मम भवन्तु महोदयदायकाः ॥२५॥ गुरुगमावलिनीर-सुपूरितं, सुपरि-पद्धतिवेल-विराजितम् । सकल-जीवदयामणि-सङ्कुलं, जिनवरागम-वारिनिधिं स्तुवे ॥२६॥ श्रुतवतां दमिनां हितकारिणी, मधुपचुम्बित -पम-निवासिनी । सकल-सौख्यकरी श्रुतदेवता, भविकलोकविबोधकरा स्तुता ॥२७॥ इति मया वरतीर्थकराः स्तुताः, सकल-भव्यजनौघनतक्रमाः । सु-मुनिशेखरसूरि-निषेविता,
मम भवन्तु जिना हितदाः सदा ॥२८॥ (वि. सं. १८५१, मा. सु. १३, रवि सुरतबंदरे लिपिकृतं)
(जैन स्तोत्र समुच्चये)
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org