________________
२९२
स्तुति तरंगिणी (पाठान्तरम् अवचूर्याम् ) स्वसेवकान् यः कुरुते जगन्ति सन् , महागमो ज्ञानवतः प्रभावत: ! करोतु सोऽस्मान् शिवसङ्गि भो निजान् , महागमा ज्ञानवतः प्रभावतः ॥३४॥
(पाठान्तरम् वंशस्थ ) स्वसेवकान् यः कुरुते ददत् सतां, महागमो ज्ञानवत: प्रभावतः । शिवप्रदं तं जितकल्पपादपं, महागमोऽज्ञानवत: प्रभावतः ॥३४॥
(वसंततिलका) शास्त्रार्णवे सकलवादि-जयश्रियाऽऽप्य वागदेवते समुदिता कुशलानि कामम् । तेषां शिवाय दधतां विनुवन्ति ये त्वां, वागदेवते ! समुदिता कुशला निकामम् ॥३५॥
(शार्दूलवि. प्रशस्ति) एवं यो मतिमान स्तुते जिनवरान् भक्त्या समग्रान् अमान् , शक्राली मुनिसुंदरस्तवगणैः नूतक्रमाम्भोरुहान् । सर्वाभीष्टसुखोचयैर विरतं स्फूर्जत् प्रमोदाद्वयो, मोहद्वेषि जयश्रिया स लभते श्रेयोऽचिरात् शाश्वतम् ॥३६।।
१. सङ्गता ॥ २. क्रिडति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org