________________
स्तुति तरंगिणी (पाठान्तरम्) (जीयात्ते स्वोदितश्राद्ध मुनिसुव्रतभारती । पूता यजनुषा पृथ्वी मुनिसुव्रत ! भारती) ॥२०॥ श्रियोऽधीश ! नमे ! न स्यान्मही-न विभवात्मनः । अस्याऽऽराध्य शिवाय त्वमहीनविभवाऽऽत्मनः ॥२१॥ तुभ्यं नेमे! ऽखिलांगिभ्यो महागम ! नमो हित !। राजिमत्यादिभिर्विश्व-महागम! न मोहित ! ॥२२॥ यः सतां ददतेऽनन्तसारं श्रेयोऽयशोभितः । तं पावं तु स्तुवे स्वस्तिसारं श्रेयोऽयशोऽमितः ॥२३॥ श्री वीराऽवेदितो येन भावतः समयस्ततः । शिवाप्तौ भवितास्यात्त-भावत: समयस्ततः ॥२४॥ स्तोता सीमन्धर ! स्यात्ते कल्याणकमलाऽऽलयः । तं नाऽर्दते च विश्वेष्टकल्याणक! मलाऽऽलयः ॥२५।। स्तुवे चाहं जिनं भक्त्या प्रसिद्धकुशलाऽऽलयः । लमेय तं स्तुवन् श्रेयः-प्रसिद्धकुशलाऽऽलयः ॥२६॥ त्वयि भक्तं त्रिलोकीस्थ ! श्रेयोराजिदमो-द-य।। जिनवर्ग! पदनाम्नां श्रेयो-राजिद ! मोदय ! ॥२७॥
१. स्वरूपः ॥ २. जीवः ।। ३. मङ्गल ।। ४. विलोकीश! इति पाठान्तरम् ! चतुर्विंशतिनिन, सप्ततिशतजिनपट्टकादौ देववंदने युगपद् बहुजिन स्तुतिरियम् । पदादौ देववंदने शाश्वता जिन चतुष्टय स्तुतिः ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org