________________
२८२
स्तुति तरंगिणी
विशतु मे मनसि प्रभु-सुव्रतः, कलिमलापगमाद् व्रतशोभिते । समिति-गुप्तिजलोत्कर-सञ्चिते, विनय-लब्ध-सदागमदीपके
॥२०॥ विजयसे विदितं नमिशासनं, स्वपरतत्वविभेदन-भासनम् । कुमतदुनय-कौशिकनाशनं, रविनिभं कमलौघविकासनम् ॥२१॥ युवतिपाशमपास्य महास्थ !, पशुगणं करुणं सुनिभालयन् । यदुवरान्विनिवार्य करग्रहाच्छिवसुखाय दधाव शिवाङ्गभूः ॥२२॥ कमठ-कल्पित-घोरघनाघने, धरणनाथवधूकृतनृत्यके । समतया सुमनाऽरतिरोषमुक्, शमसुख मम रातु स पावराटू ॥२३॥ त्रिविधदानददत्करुणापरो, द्विविधमोहमतङ्गजकेशरी । परमपंचमहाव्रतधूर्वही, वसुमतीतिलकोऽव हि वीर ! माम् ॥२४॥ रजतविद्रुमकाञ्चननीरमुक्-, मरकतद्युतयो वृषभादिकाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org