________________
स्तुति तरंगिणी (उपजाति:) श्लाध्यैव कृष्णापि मधोश्चतुर्थी, पार्श्वश्च्युति-ज्ञान-महात्मकेन । निजेन कल्याण-युगेन यत्रावातीतरत् स्वर्गरमामिहोप्म् ॥४८॥
(उपजातिः) चैत्रे शितो पंचमिकातिथौ या, श्री लक्ष्मणाकुक्षिमलंचकार । चन्द्रप्रभः श्री-महसेन-भूपकुलाब्ज-हंसः स सतां श्रियेऽस्तु ॥४९।।
(स्रग्विणी) कृष्ण-चैत्राष्टमी-जातजन्मव्रत, दर्शित-न्यायधर्मव्यवस्थं धुरि । नाभिराजांगजन्मानमाद्यं जिनं, ध्यान-सेवानमस्कार-मानें नये ॥५०॥
(स्वागता) यस्य शुक्ल-मधुमास-तृतीयावासरे विमलकेवलमासीत् । तस्य सप्तदशकुन्थुजिनेन्द्रस्यांहियुग्महमन्वहमीडे
॥५१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org