________________
स्तुति तरंगिणी सा पौषकृष्णदशमी जिनपार्श्वजन्मकी पवित्रयतु मानसमस्मदीयम् ॥१५॥
(इन्द्रवज्रा) राज्यं परित्यज्य बभार सारं, पार्थो जिनो यत्र चरित्रमारम् । पौषस्य कृष्णामपि पुण्यरूपामेकादशी तां मनसा स्मरामि ॥१६॥
(शालिनी) पौषस्याद्यद्वादशी लब्धजन्मा, योऽभूद् भूमेभूषणं भारतस्य । सेवे द्युत्याऽपास्तचन्द्रप्रभस्य, तस्यांही श्रीदेवचन्द्रप्रभस्य
॥१७॥ (रथोद्धता) पौषमास्यविशदत्रयोदशीप्राप्त-संयम-रमा-समागमम् । अष्टमं जिनमिहाष्टकर्मभीवारणं शरणमाश्रयाम्यहम् ॥१८॥
(उपजाति) चतुर्दशी-शीतल-केवलाप्त्या, पौषस्य कृष्णाऽसुमतां मताऽभूत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org