________________
स्तुति तरंगिणी
(इन्द्रवजा) श्रीगौतमं सर्वगुणाभिरामं, विशेषलब्धेः प्रवरैकधाम । देवेन्द्र-संसेव्यपदारविंदं, वन्दे सदाऽहं शुभवल्लिकन्दम् ॥१॥ श्रीमजिनेन्द्रा नतदेववृन्दा, अनस्तमोनाशनभानुतुल्याः । संसार-विच्छेदन-चारुवीराः,सौख्याय वस्सन्तु गुणकधीराः॥२॥ देवेन्द्रनागेन्द्रनरैश्च कामं, संपूजितं वर्णरमाभिरामम् । सिद्धान्तपाथोधिमहं प्रधानं, स्तोष्ये जनानन्दकरैकयानम् ॥३॥ सिद्धायिका पूरित-पूर्णकामा, सद्हेमवर्णाभरणाभिरामा । श्रीराजहंसादिगतिप्रधाना, सौख्यानि देयात् शुभनागयाना॥४।
(हेमेन्द्रवि. फणसा)
(इन्द्रवजा) प्रवर्तमाना-मनपामतीता-मनागतां तीर्थंकृतां नितान्तम् । चश्चच्चतुर्विशतिकां नमामि, श्रीगौतमोक्तं भरतावनिस्थाम् ॥१॥ तीर्थङ्कराणां विजयेषु षष्ट्य-धिकं शतं पञ्चविदेहभूमौ । उत्कृष्टतः श्री--भरतेषु चैरा-वतेषु वन्दे दशकं प्रमोदात् ॥२॥ सदर्थरूपा भगवभिरुक्त्या, सुपाठरूपा गणिभिर्निबद्धा । श्री द्वादशाङ्गी भुवि भाविभूत-प्रवर्तमानार्थविबोधिकाऽस्तु ॥३॥ श्री-अर्हता शासनदेवदेव्यः, श्री- देवतावाङ्मयदेवताश्च । विश्वेश्वराः शासनयक्षराजाः, कुर्वन्तु कल्याणधनानि सङ्घ ॥४॥
( हेमेन्द्रवि. फणला)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org