________________
१६३
संस्कृत विभाग-२
अंभोजम्मकुरंग-चारुनयणा पुणिदुतुल्लाणणा, मोणिकारसि-पव्यतिव्वरसिणं सव्वाण भव्यङ्गिणं । जा सोहग्ग अमग्ग सरगुणसिरि वित्थारयंति घणं, सा कल्लाणकरा करेउ सययं अम्माण अंबासुरी ॥४॥
(देवशानो पाडो-अमदावाद) (१) श्री पुण्डरीकगणधर-स्तुतिः
(अनुष्टुभ् ) सिद्धं श्रीपुण्डरीकाऽद्रौ, प्रथमं गणनायकम् । जगदाप्यायकं श्रीमत्-पुण्डरीकं नमाम्यहम् ॥१॥ श्रीमत्पुण्डरीकाद्याऽद्रि-शृङ्गशृङ्गारदायकाः । नायकाः शिवदाः सन्तु, मम श्री-जिननायकाः ॥२॥ पुण्डरीकगणेन्द्राऽऽदि -विहितं हितमीहितम् । मतं जिनमतं मेऽस्तु, सदा सिद्धि प्रदायकम् ॥३॥ पुण्डरीक-मुखि सर्व-शास्त्र-सम्भारतीरदे । भारति भारति ! दद्यात् , सद्यो विद्याश्च मे श्रुतम् ॥ ४॥
(इडर ज्ञानभंडार)
(२) पुण्डरीकगिरिराजशेखरं, पुण्डरीकसमकीर्तिवैभवम् । पुण्डरीकसम्भवभवद्वप्रे, पुण्डरीकगणधारिणं स्तुमः ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org