________________
संस्कृत विभाग-२
अर्हद्वकत्रकजे स्थितिभंगवती सद्द्वादशाङ्गोद्भवा, स्याद्वादं मदशैलमानपविं व्यालोकयन्ती पृथक् । कुर्वन्ती भविनां शिवं च मतिदा सम्यकत्वदात्री नृणां, सा जैनी श्रुतिवाग ददातु रुचिरं ज्ञानस्य लाभं सदा ॥४॥
(बापजी म. अमदावाद)
(३)
(शार्दूलविक्रीडितम् ) कस्मिंश्चित्समये समुद्रविजयक्षोणि-विभोनन्दनः, श्रीनेमिः सफलां सृजन् वनभुवं श्रीद्वारवत्याः पुरः । श्रीमच्छीपतिवासष-प्रभृति-सत्सामाजिकोनां पुरो, व्याख्यातिस्म विधि यदीयमतुलं सैकादशी श्रेयसे ॥१॥ सर्वे तीर्थंकराः सुरार्चित-पदा आनन्द-कन्दायिताः, प्रोद्यत्पर्षदि हर्षतो गणधरा व्याख्यानयन्तीत्यमी । पुष्पैः वल्लरीव प्रभूतभगवत्कल्याणकैः सूज्ज्वला, या जाता जगति प्रसिद्ध-सुषमा सैकादशी सेव्यताम् ॥२॥ वागीशोऽपि विवेचितुं न समभूत् शक्तो यदीय-प्रथां, मैत्री-तुष्टिरमाश्रयां कलिमलप्रध्वंस - बद्धादराम् । सिद्धान्ते प्रकटीकृतामनुपमा तीर्थाधिपः तुष्टये, सत्वानी विपुलोर्थसार्थ-जननी सैकादशी स्तात् ध्रुवम् ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org