________________
१२४
(१३) स्नातस्या - पादपूर्तिः
( शार्दूलविक्रीडितम् )
देवानन्दिकया पयोधरयुगे लब्धो महाप्रश्रवः, प्रापत्तापसकत्रिपंचंशतकं ज्ञानध्रुवं केवलम् | धर्म - स्नेहभरं च गौतम - विभुः संविक्ष्य हर्षोत्राद्वक्त्रं यस्य पुनः पुनः स जयति श्री - वर्द्धमानो जिनः ॥ १ ॥ * - जम्बूद्वीप - त्रिलोकनाद - वधिना ज्ञानेन मत्वा जिनान्, प्रौढानन्दभरेण मङ्गलजयैर्भक्त्या नमन्मस्तकैः । येषां स्नात्रमकारि काञ्चनगिरौ भावादपायच्छिदे, सर्वैः सर्व-सुरासुरेश्वर- गणैस्तेषां नतोऽहं क्रमान्
॥२॥
- नित्यानित्यादि - धर्मात्मक सकल-पदार्थ- प्रबोधे प्रतिष्ठः, प्रादुर्भूतो यथार्थः श्रुतिपर्दैन -वशाद् यस्य विश्वाङ्गभाजः । अक्षीण- ज्ञान - सौख्यं शिवपद-मसमं प्राप्यते तत्प्रधानं, भक्त्या नित्यं प्रपद्ये न महमखिलं सर्व - लोकैकसारम् ||३|| - श्री - सिद्धार्थ - क्षितीन्द्रात्मज - चरण- सरो-- जन्मयुग्माच्चकानां, विमत्राता - पहर्ता धनघन - सुसुख - प्रौढसम्पत्प्रदाता | प्रस्फूर्जत् संप्रनिर्यन् मद - सजल - घनश्याम - दन्ताबलस्थो, यक्षः सर्वानुभूतिर्दिशतु मम सदा सर्वकार्येषु सिद्धिम् ॥ ४॥
*_
( आ. पुण्यवि . )
स्तुति तरंगिणी
( * स्रग्धरा. १. सत्पवितथा २. करा: ३. पायाः छितेः स्तुतिपठन वस्यात् ५ विश्वाङ्कभाजन् ६. प्राप्येते स्तद्प्रधानः ७. सीरो: सीरौ ८. यद्मदलधन स्याम दन्ताबलस्तौ । )
Jain Education International
For Private & Personal Use Only
४.
शिरं
www.jainelibrary.org