________________
संस्कृत विभाग- २
(१) श्री - महावीरजिन - स्तुतिः ।
सिद्धार्थजं सम्पूर्ण विज्ञानवरं वृन्दारकै र्वन्दितपादपङ्कजं,
वीरं भजेऽहं तत काम सामजम् ॥१॥
कांचनवर्णभूधनं, स्मिताननम् ।
येऽनन्तसंसारसमुद्रतारकाः, कन्दर्पदर्पानल- भीबलाहकाः । कल्याणवल्लीमुदिरा, नतामरा-स्तीर्थङ्करास्तेऽपि जयन्तु शङ्कराः ||२||
हिंसा विमुक्तं विजयान्वितं हितं, श्रीमुनिराज सेवितम् ।
निर्मायिकं
नानाकुवाद्यावलिदर्पनाशनं,
वन्दे वरं श्री जिनराजशासनम् ||३||
मातङ्गदेवोऽतिवरः शिवंकरः, श्रीमन्महावीरमते विपद्धरः । सिद्धायिकापि प्रबलतमोज्ज्वलं, ज्ञानं हि लक्ष्मीविजयस्य यच्छतात् । ॥४॥
Jain Education International
१११
( पू. रामचंद्रसू. म. अहमदाबाद )
For Private & Personal Use Only
www.jainelibrary.org