________________
१००
(१०)
पार्श्वोऽवताद्योगद - वाचमुच्चरन्, महामहानील-तमाल - कालिकः । बभौ बलाका - युगिवाम्बुदो नमन्, महामहानील - तमाल - कालिकः
स्तुति तरंगिणी
ये त्वां जिनौघं स्तुवते तमस्तुदं, सनाकनिष्ठा वर- दैत्य - मानवाः । परिष्वजन्ते वन तान् रसालसाः, सनाकनिष्ठा वर- दैत्य- मानवाः ॥२॥
एकान्तवाद - प्रतिपन्न - दन्तिनो, निशम्य जैन - श्रुतगाः प्रतिश्रुतम् । एकान्त-वाद - प्रतिपन्न - दन्तिनो, भिया कुरङ्ग - प्रतिपन्थिनः सदा
अहीनभार्या विभया बिलेशये, निषेदुषी स्वङ्गफले च बिभ्रती, अहीन- भार्या विभया बिलेशये, पद्मावती यच्छतु वाञ्छितानि वः
Jain Education International
॥१॥
For Private & Personal Use Only
॥ ३॥
11811
( हंसवि. म. वडोदरा )
www.jainelibrary.org