________________
स्तुति तरंगिणी (१) श्री-शान्तिजिन-स्तुतिः
(वसन्ततिलका) भक्तामरेन्द्रनतपत्कजमुद्विकारं
श्रीवीतरागमजमाप्तमुदारतारम् । तीर्थेश्वरं स्वबलनिर्जितकर्मसारं,
शान्ति स्तुवे स्मरवितान-विनाशकारम् ॥१॥ शास्त्रोक्त-सुंदर-शिवस्य वशैकमन्त्रान्
कन्दर्प-वारण-वधे वरपंचवक्त्रान् । तीर्थकराजिनवरान्सुविशुद्धगोत्रान्
वन्दे मुदाहमधिपान् हि सदा पवित्रान् ॥२॥ विद्यान्वितं वृजिनवृक्षलतालवित्रम्
संसार-सागर-तरण्ड-मकाण्ड मित्रं, दुष्टाष्टकर्मनिधनं विपुलं विचित्रम्
सेवे सदा जिनवरेन्द्रमतं पवित्रम् ॥३॥ श्री-शान्तिनाथ जिनशासनभक्त दक्षः
प्रत्यूहामीप्रतिहताधमदुष्टपक्षः । शीघ्रं सरित्पतिसुताविजयस्य यक्षः
सिद्धिं दधातु गरुडः कृतसंघरक्षः (पू. रामचंद्रसरिजी म. अमदावाद)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org