SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ : ३९० :+[९२८] स्तुतितरङ्गिणी भा. २ द्वाविंशतितमतरङ्गः अतीताऽनागतान् सर्वान् , वर्तमानान् जिनेश्वगन् । प्रपद्ये शरणं भावात् , पारं गन्तुं भवोदधेः ॥ ९५ ।। अद्भुतं ज्ञानमीशानां, तीर्थकृन्नामभोगिनाम् । तारकं शरणं मेऽस्तु, श्रुतसागरसङ्गतम् ॥९६ ॥ तीर्थकृस्पादसेवायां, या रक्ता सुरदेवता। सर्वविघ्नविनाशाय, भवेत् सा भक्तिशालिनाम् ॥९७ ।। प्रशस्तिः सुधर्मस्वामिनः पट्टे, द्वासप्ततितमे ह्यभूत् । विजयाऽऽनन्दसूरीशः, तपोगच्छप्रभावकः दुण्ढकानां सहस्राणि, कृत्वा पञ्चनदे सुधीः । मूर्तिपूजा विधायीनि, समुदभ्रे गुरूत्तमः ॥ २ ॥ हिंसकानां नरेन्द्राणां, दयाधर्मोपदेशकः । रेजे कमलसूरीशः, तत्पट्टे मम सद्गुरुः तस्य पट्टधरेणैव, रचिता लब्धिमूरिणा । तीर्थङ्करसुतीर्थानां, जयन्तु स्तुतयः सदा ॥ ४ ॥ नयनक्षोणीव्योमाक्षि-वत्सरे वैक्रमे शुभे । उज्वले श्रावणे मासे, तृतीया दिवसे शुभे रचितेयं स्तम्भपूर्या, स्वल्पशक्त्यापि भावतः न पुष्पाणि दलं पौष्पं, जिनपादे समर्पितम् - १ प्रान्तपद्यत्रयेग साकं भण्यते तदा श्रीतीर्थङ्करतीर्थादीनां स्तुतयो भवन्ति । २ वि. सं. २०.१२नी पोतानी नित्यनोंधपोथीमाथी उद्धरित । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003303
Book TitleStuti Tarangini Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy