________________
-
: ३८८ :+[९२६] स्तुतितरङ्गिणी भा. २ द्वाविंशतितमतरङ्गः लोटाणार्षभदेवो यो, दृष्टमात्रो हदि स्थितः । हरत्वान्तरमालिन्यं, युगादौ धर्मदायकः ॥ ७३ ॥ दीयाणायां महावीरोऽ-भुतकान्तिधरः प्रभुः । अद्भुनानि स सौख्यानि, ददातु जिनराट् मम ॥ ७४ ॥ सिद्धार्थनन्दनो नाणा-मण्डनः श्रीवीरप्रभुः । प्राभवं वैभवं दद्यात्, स्तुतः स सूरिपुङ्गवैः ॥ ७५॥ जीवत्स्वामीति यः ख्यात्या, महुवातीर्थकारकः । वरं पारकरं दद्यात्, श्रीवीरः शासनाधिपः ॥ ७६ ॥ तालध्वजगिरौ सौम्य मूर्तिः श्रीसुमतिप्रभुः । धर्मे मे सुमतिर्दद्यात् , पश्चमो धर्मनायकः ॥ ७७ ॥ श्रीघोघाबन्दरे पाच, नमामि नवखण्डकम् । नवमं तत्त्वरूपं त-मष्टमीगतिदायकम् कदम्बगिरितीर्थाय, प्रातर्नित्यं नमोऽस्तु मे। कोटीशः कोटिभव्यानां, सिद्धिदात्रे शिवाप्तये ॥ ७९ ॥ श्रीसूर्यमण्डनं पावं, द्रले श्रीसूरते स्थितम् । भव्यानां बोधिदातार, भक्तिभावानमाम्यहम् छाणीग्रामस्थितं सेबे, शान्तिनाथं मनोहरम् । जगतः शान्तिकर्तारं, आत्मलब्धिप्रदायकम ॥८१ ॥ लोढणं जिनपार्श्वेशं, दर्भावत्यां गतं नतम् । चतुष्षष्ठिसुरेन्द्रस्तं, संयमाय नमाम्यहम् ॥ ८२ ॥ अह्मदाबादसुख्यात-नगरे योऽस्ति राजितः । मोरैयापार्श्वनाथं तं, संस्तुवे भक्तिभावतः ॥ ८३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org