________________
: ३७४ :+ [९१२]
स्तुतितरङ्गिणी भा. २ एकविंशतितमतरङ्गः .
पूरय मम कामितमतिशयजगदुत्तंस !, प्रियगौडीमण्डनपार्श्वजिनेशाऽवतंस ! ॥ १ ॥
श्रीभरतैरावतवरविदेह विजयन्तं,
नन्दीश्वर कुण्डलरुचकादिषु विलसन्तम् । असुरव्यन्तर सुरभवनादिषु जयवन्तं,
प्रणमामि जिनाधिप सङ्घमनघ भगवन्तम् ॥ २ ॥
प्रवचनवचनामृतपानमनन्त हिताय,
प्रशमप्रसराऽद्भुतरसपूरितमुचिताय । कुरु कुरु सुभगत्वं महिमबतामुचिताय,
भवतापभिदे तव भवति यदुल्लसिताय ॥ ३ ॥ प्रज्ञप्तीगौरी प्रमुखसुरीस्तवनीये !,
भगवति ! पद्मावत ! द्युतिनिर्जिततपनीये ! | धरणेन्द्रमनःप्रिय पार्श्वक्रमशयनीये !,
प्रीणय लयलीनं कमलविजय भजनीये ! ॥ ४ ॥
श्रीवद्धमान जिनस्तुतयः । १. ( द्रुतविलम्बितम् )
सकलमङ्गलमञ्जुलकन्दलं, गुणगणालयकं शिवशम्बलम् ।
जिनवरं हि नमामि सदा युतं, सुमनसा मनसा त्रिशला सुतम् ॥ १# अशुभ कन्दनवन्दनमालिकां, घत्रलमङ्गलमञ्जुलबालिकाम् । जितमनोजिनराज परम्परां प्रतिनमामि नमामि शुभङ्कराम् ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org