________________
: ३६४ : + [९०२]
स्तुतितरङ्गणी भा. २ द्वाविंशतितमतरङ्गः
तमाप्तसङ्घातमहं वहामि, श्रीखण्डकाश्मीरजपुष्पमुख्यैः । प्रचण्ड मार्तण्डविमानकान्ति यद्धर्मचक्रं गगने चचाल ॥ २ ॥ श्रीद्वादशाङ्गीत्रिदशापगा या, सर्वज्ञगौरीजनके प्रशस्ता | मुखाब्जशोणात्प्रससार विश्वे, निःसृत्य सा कर्ममलं जहातु ॥ ३ ॥ श्री रोहिणी सा विदधातु भद्रं, शरीररोचिर्जितरोहिणीशा । सद्रोहिणीनन्दनगौरकीर्तिः, संरोहिणी सर्वतमोभरेषु ॥ ४ ॥
श्रीशम्भवजिनस्तुतयः ।
१ ( उपजातिः )
* अभिष्टुमः शम्भवतीर्थराजं, नमन्नराऽमर्त्यसुराधिराजम् । जितारिसन्तान नभोनभोगं, सम्प्राप्त कैवल्यवशोपभोगम् ॥ १॥ जिनोत्तमास्ते सततं समग्रा, रक्षन्तु संसारभयान्मनुष्यान् । यद्दर्शनात् कल्कगणाः प्रणाशं, प्रयान्ति मेघादिव " वेणुवाराः ||२॥ श्रीवीतरागाऽऽगमवीचिमालि - पुत्री हृदीशाऽग्रज एष नित्यम् । अज्ञानभूमीघरमाशु सप्त- नयस्फुरद्वज्रधरो निहन्तु ॥ ३ ॥ हर्ष प्रकर्षं मम मानसीयं दद्याद् सुरी राजमरालयाना वज्रं करे वारिजनेत्रयुग्मा, विद्युल्लतागात्ररुचिर्दधाना
।
118 11
1 व्रणेषु । 2 रेणुवाराः । * पू. आ. श्रीविजयानन्दसूरीश्वराणां पट्टशिष्य पू. मुनिशेखर श्रीलक्ष्मी विजयागां विनेयमुनिराज श्रीहंस विजयस्य कृतिरियम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org