SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ श्रासप्तत्यधिकशतजिनानांस्तुतिः ५०९ अथ श्रीसप्तत्यधिकशतजिनानां स्तुतिः। 卐 १ ( शार्दूलविक्रीडितवृत्तम् ) ये बन्धूकतमालकुन्दकलिका हेमप्रियङ्गुप्रभाश्वञ्चञ्चन्द्रमरीचिनिर्मलगुणव्याप्तत्रिलोकोदराः । ये पश्यन्ति करस्थितामलकवल्लोकत्रयं सर्वदा, ते सप्तत्यधिकं शतं जिनवृषा मुष्णन्तु पापानि वः ॥१॥ रक्ताऽशोकतरुर्विचित्रसुमनो वृष्टिः सुदिव्यध्वनि:, शुभ्रे भास्वरचामरे मणिमयं व्याभाति सिंहासनम् । भाश्चक्रं स्वरदुंदुभिः स्फटिकरुकछत्रत्रयं राजते, येषान्ते विनयन्तु] वोऽनघगुणाः पाप्मानमाराजिनाः ॥२ ।। यानं मोक्षपुरीप्रयाणकविधौ सेतुर्भवाम्भोनिधे जिं बोधिलतोद्गमे च दिनकृत् द्वेषान्धकारे क्षितौ । लक्ष्मीवेश्मकुवादिकुञ्जरघटाकण्ठीरवो वोऽनिशं, सिद्धान्तः सुखहेतुरस्तु जगतामानन्दपात्रं परम् ॥३॥ मुक्ताशङ्खपयोदधीन्दुधवला वाग्देवता बालिका, [अज्ञानान्धतमो विनोदनचणा धीवैभवोत्पादिका] । देव्यः शासनसन्निधाननिरता विद्याधिपाः षोडश, व्यापत्ति प्रविदारयन्तु जगतां नः प्रत्यनीकैः सदा ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy