SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ अष्टमस्तरङ्गः अथ श्रीशत्रुञ्जयमण्डन-आदिजिनस्तुती । १ ( स्रग्धराछन्दः ) शैले शत्रुञ्जयाऽऽख्ये भवजलधिपतज्जन्तुपोतायमाने, चैत्ये चञ्चत्पताकाप्रकटसितपटे कूपकाऽऽभे गुणाऽऽन्ये । नेतुं पारे परस्मिन् शिवनगरमहाराज्यलाभाय लोकं, कुर्वनिर्यामकत्वं जयति जिनपति भिभूपालसूनुः यत्पादाऽम्भोजरेणुस्तबकतिलकिता भाविनो भावनम्रा, भुक्तेर्मुक्तेश्च लक्ष्म्याः स्फुटमिह शुभगं भावुकत्वं भजन्ति । ते सन्तो भाव्यतीता विमलगिरिमहाशृङ्गशृङ्गारकाः(ये), पायासुर्लोकसारा जिनवरवृषभाः फलप्तविश्वोपकाराः ॥२॥ शैले श्रीपुण्डरीके समवसृतिमुखान् उन्नतैर्यद्घनाभैभव्यानानन्दयद्भिः शिखिन इव लसद्देशनागर्जितेन । उद्गीर्ण तीर्थराजैः श्रुतममृतमिदं बोधिबीजानुरूपं, श्रेयःसम्पत्फलाद्यं प्रथयतु सुकृताङ्कुरपूरं जगत्याम् ॥३॥ पुण्यात्पुण्यानुबन्धान्नियमलवभवात् पूर्वजन्मानुचीर्णात् , देवत्वं प्राप यः श्रीविमलगिरिमहातीर्थसेवापवित्रम् । कल्याणीभक्तिरुच्यै प्रथमजिनपतेः पादपद्मार्चनेऽसौ, श्रीयक्षेशः कपर्दी भवतु भवभृतां भूतये शान्तये नः ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy