________________
४२२
स्तुतितरङ्गिणी : सप्तमस्तरा
॥८॥
पद्मप्रभावऽगणनोद्यतदेहदीप्ति
पद्म ! प्रभावकमलामतुलामुपेत स्वामिन् ! सुपार्श्व ! भगवन् ! जिनकोपमान ।
__ प्रह्वाङ्गिमानसजले कतकोपमान ! । स्तोता प्रयाति तव देव ! नकोपमान
मायः शिवं जगति यस्य हि कोपमा न ॥७॥ प्रौढिं परामधित चिन्महसे-नराज
जैत्र ! त्वया तनुभुवा महसेनराजः । कीर्तिस्तथाऽस्तसितधामहसेन राज
त्युर्वितले नतमहामहसेनराजः कीर्तिप्रतापपरितर्जितपुष्पदन्तं,
नम्रप्सितप्रथनदैवतपुष्पदन्तम् । विज्ञा हितैकमतयो जिनपुष्पदन्तं,
भक्त्या स्तुवन्ति कति न स्मितपुष्पदन्तम् ॥९॥ अस्मान् कृपाऽर्णव ! भवाऽऽर्ततमान-ऽवे-न !,
श्रीशीतल ! प्रबलपापतमानवेन !। त्रातं त्वया हि भजतेऽद्भुतमा नवेन,
स्तुत्या सतां प्रणतदैवतमानवेन ॥१०॥ वाचः प्रभो ! तव तमश्चिछदि भानवन्ति,
श्रेयांस ! विश्वकुमुदे हिमभानवन्ति । १ पदोर्मा यस्य । २ सुखोपमा। ३ दधार। ४ कल्पवृक्षम् । ५ नवीनसूर्य ! ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org