________________
आ. श्रीजिनसुन्दरसूरीश्वरप्रणीता-स्तुतिचतुर्विंशतिका पू. आ.श्रीजिनसुन्दरसूरीश्वर-प्रणीता-यमकबद्ध
स्तुतिचतुर्विंशतिका
+ १ ( शार्दूलविक्रीडितवृत्तम् ) श्रीमानाऽऽद्यजिन ! श्रियं सृज सतामभ्यर्थितामाऽऽनतश्रीदा!-ऽऽनन्दितदेवपाद ! परमाऽऽलोकत्र ! यीपाऽवन ! यस्याऽऽज्ञा तव तन्वती विजयते पुंसामसीमोदयश्रीदानं दितदेवपादपरमा लोकत्रयीपावन !
॥१॥ तन्वा सत्त्वसतत्त्व ! सत्त्वहितकृत्तत्त्वानि शैवं सुखं, सद्यो निर्जितशत्रुजात ! सविता ! पद्माभिरामोदय । रोहन्मोहतिमिस्रसंहतिहृतौ विश्राणिताभिर्विशोऽसद्योनिर्जितशत्रुजात ! सविताऽऽपद्माऽभिरामोदय ! ॥२॥ श्रेयाऽम्भोजनभोमणे ! दधदिह स्वान्ते सतां यो लसत्कल्याणो रुरुचे सदानततम ! श्रीशम्भवाऽसम्पदम् । दूरीकृत्य स कृत्यविज्ञ ! तनुतां नेतः ! स्वभक्तिं भवान् , कल्याणोरुरुचे ! सदा नततमश्रीशं भवाऽसं पदम् ॥३॥ विश्वं धर्मकथाप्रथाभिरपृणः कीास्तगङ्गापयोदोषाकान्तरुचे-हितोऽमद ! विपत्ता ! ऽतापकोऽपाश! यः । नन्द्याः श्रीअभिनन्दन ! त्वमनिशं सत्त्वेषु स श्रीजिनोऽदोषा! ऽकाऽन्तरुचे ! हितोऽमद! विपत्त्राताऽपकोपाऽऽशयः ।।४।। १ निर्माता। २ आनन्दय । ३ पुरुषान् । ४ भवान्तकम् । ५ रोगच्छेत्ता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org