________________
३४७
ट्रिपं. श्रीमविजयजीगणिप्रणीता-स्तुतिचतुर्विंशतिका
३४७ अथ श्रीशान्तिजिनस्तुतिः ।
१ ( वसन्ततिलकावृत्तम् ) यं स्तौति शान्तिजिनमिन्द्रततिनितान्तं,
__ श्रीजातरूपतनुकान्तरसाभिरामम् । शान्ति सुरीभिरभिनूत ! नुदन् स नुन्न
श्रीजातरूप ! तनु कान्तरसाभिरामम ॥१॥ राजीभिरर्चितपदाऽमृतभोजनानां,
मन्दारवारमणिमालितमस्तकानाम् । पुंसां ददातु कुशलं जिनराजमालाs. मन्दारवाऽरमणिमालितमस्तकानाम् यो गोस्तनीमधुरतां निजहार हानि
च्छिन्नाशिताजिनवरागमहारिवार ! । माधुर्यमेति न तवाधिशुचौ मधुत्व
च्छिन्ना सिता जिनवरागम ! हारिवारः ॥३॥ श्रीआचिरेयचरणान्तिकसक्तचित्ता,
निर्वाणिनी रसनरोचितदेहकान्ता । मां शर्मणां पृथु विधेहि गृहं सुराणां,
निर्वाणि ! नीरसनरोचितदेह कान्ता ॥४॥
अथ श्रीकुन्थुजिनस्तुतिः ।
१ ( वसन्ततिलकावृत्तम् ) मां कुन्थुनाथ ! शमथावसथः प्रकृष्ट
स्थानं दमाय नय मोहनवारिराशेः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org